________________ श्रीयतिदिनचर्या अवचूर्णियुता 123 भृष्टधान्यगुडतिलपर्पटिकाखजूरनालिकेरद्राक्षाकर्कोटकाम्रपनसादि, यदाहुः"भत्तोसं दंताइ खज्जूरं नालिकेरदक्खाई / अंबगफणसाइ तहा बहुविहं खाइमं नेयं // 1 // " अथ स्वादिम, स्वादयति गुणान् रसानिति स्वादिमं, तच्चेदंदन्तकाष्ठताम्बूलतुलसिकापिण्डार्जगमधुपिप्पलिसुंठीमिरचजीरकहरितकीआमलकादि, यदाहुः"दंतवणं तंबोलं चित्तं तुलसी कुहेगाईयं / महुपिप्पलिसुंठाई अणेगहा साइमं नेयं // 1 // " "असणं पाणगं चेव, खाइमं साइमं तहा / एसो आहारविही, चउव्विहो होइ नायव्वो // 1 // ". अनाहाराश्चैते-निम्बत्वक्रक्षाखदिरतिकटुकादीन्यनेकानि द्रव्याण्यनाहाराणि भवन्ति, अत्र नियमभङ्गभयात् आकारावाह-'अन्नत्थऽणाभोगेणं सहसागारेणं' अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात्, अनाभोगः-अत्यन्तविस्मृतिः सहसाकारात् च, सहसाकारो गवादिकं दुहतो तापयतो वा घृतादिकं मुखे सहसा छटायाः प्रवेशः, ताभ्यामन्यत्र प्रत्याख्यानं, इदं चतुर्विधाहारस्यैव मुहूर्तमात्रमेव भवति इत्याम्नायः, रात्रिभोजनविरमणव्रततीरणरूपत्वादस्य, नमस्कारसहितस्य चायमर्थःमुहूर्तात् परतो नमस्कारोच्चारणे पूर्यते, मुहूर्तं द्विघटिकामानं, तदनुच्चारणे सूर्यास्तसमयेऽपि न पूर्यते, मुहूर्ताभ्यन्तरे नमस्कारोच्चारणेऽपि न पूर्यते // 1 // (आकारषट्कयुतं पौरुषी) तत् सूत्रं चेदं - 'पोरसि पच्चक्खाइ उग्गए सूरे दुविहं तिविहं चउविहं वा आहारं असणं पा० खा० सा०