________________ 120 श्रीयतिदिनचर्या अवचूर्णियुता "मासे 2 उ तवो अमुगो अमुगोत्ति अमुगदिवसंमि / हटेण गिलाणेणवि कायव्वो जाव उस्सासो // 1 // " विशेषश्चायं-तच्चतुर्दशपूर्विषु जिनकल्पिकेषु प्रथमसंहननेन सह व्यवच्छिन्नं, उक्तं च - "चउदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे / एयं वुच्छिन्नं खलु थेरावि तया करेसी या // 1 // " 4 / अथ पञ्चमं साकारं साकारप्रत्याख्यानं, सहाकारैर्महत्तराद्यैर्यद् वर्तते, यदाहुः "महयरयागारेहि अन्नत्थ य कारणंमि जायंमि / जो भत्तपरिच्चायं करेइ सागारकडमेयं // 1 // 5 / अथ षष्ठमनाकारप्रत्याख्यानं, न विद्यते महत्तरादिकारणं यत्र तदानाकारं, अथवा न कुर्वन्ति आकारान्-अपवादान, वने दुर्भिक्षतायां च भोजनाभावान्न जीविष्यामीति ज्ञात्वा अनाकारप्रत्याख्यानं प्रत्याख्याति, तदाहुः"निज्जायकारणंमी महयरया नो करंति आगारं / कंतारवित्तिदुब्भिक्खयाइए तं निरागारं // 1 // " अपरं नाम निराकारमपि 6 / अथ सप्तमं परिमाणकृतं, परिमाणकृते प्रत्याख्यानं दत्तिकवलआदीयत्तया परिमाणं यत्र तत्, "दत्तीहि कवलेहि य घरेहिं भिक्खाहिं अहव दव्वेहि / जो भत्तपरिच्चायं करेड़ परिमाणकडमेयं // 1 // " 7/ अथाष्टमं निरवशेष-निरवशेषप्रत्याख्यानं सर्वाशनपानत्यागान्निरवशेष, यदाहुः