________________ श्रीयतिदिनचर्या अवचूर्णियुता 121 "सव्वं असणं सव्वं च पाणयं सव्वखज्जपिज्जविही / वोसिड सव्वभावेण इय भणियं निरवसेसं तु // 1 // " 8/ तथा नवमं सङ्केतं-सङ्केतप्रत्याख्यानं अङ्गष्ठमुष्टिग्रन्थ्यादिचिह्नोपलक्षितं, यदाहुः - "अंगुटु मुट्ठी गंठी घरसेऊसासथिवुगजोइक्खे। भणियं संकेयमेयं धीरेहिं अणंतनाणीहि // 1 // " अङ्गष्ठमुष्टिमोचनं ग्रन्थिच्छोटनं गृहप्रवेशं स्वेदशोषं उच्छ्वासान् थिवुगशोषं प्रदीपज्वलनं इत्यादि सङ्केतयति तत् 9 / तथा दशमं अद्धाप्रत्याख्यानं, तत्र अद्धा-कालस्तदुपलक्षितं मुहूर्तादिकालसहितं यत् तत् 10 / स्वयमेवानुपालनीयं, न कारणादिनिषेधः, आहारदानोपदेशयोः यथासमाधिः / पुनस्तदद्धाप्रत्याख्यानं दशधा भवति, यदाहुः"अद्धापच्चक्खाणं तं जं कालप्पमाणछेएण / पुरिमड्डपोरिसीए मुहुत्तमासद्धमासेहिं // 1 // " // 16 // तदद्धाप्रत्याख्यानं कथं दशधा तदाह - नवकारपोरिसीए पुरिमुड्डिक्कासणेगठाणेसुं / आयंबिलअभत्तढे चरिमे य अभिग्गहे विगई // 17 // तत्र दशविधप्रत्याख्याने प्रथमं नवकारसहितं 1 द्वितीयं प्रत्याख्यानं पौरुषी 2 तृतीयं पुरिमार्द्धप्रत्याख्यानं 3 चतुर्थमेकाशनप्रत्याख्यानं 4 पञ्चमं एकस्थानप्रत्याख्यानं 5 षष्ठमाचाम्लप्रत्याख्यानं 6 सप्तममभक्तप्रत्याख्यानं 7 अष्टमं चरमप्रत्याख्यानं, तद् द्वेधा-भवचरमं दिवसचरमं च 8 नवममभिग्रहप्रत्याख्यानं 9 दशमं विकृतिप्रत्याख्यानं 10 // 17 // अत्र उद्देशनिर्देशयुक्त्या कानि तानि दश प्रत्याख्यानानि(के ते