________________ 119 श्रीयतिदिनचर्या अवचूर्णियुता "पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं / तेण य इहयं पगयं तंपि य इणमो दसविहं तु // 1 // " अर्थश्च - प्रत्याख्यानं मूलोत्तरगुणेषु क्षपणादिकं-मासोपवासाद्यनेकविधं चतुर्थषष्ठाष्टमादिरूपं, तदपि तन्मूलभेदापेक्षया दशविधं, तद्यथा - आदावनागतप्रत्याख्यानं 1 अनागते काले पर्युषणाद्यर्वाक् ग्लानत्ववैयावृत्त्यादिकारणसद्भावे यत्तपोऽष्टमादि क्रियते तदनागतप्रत्याख्यानं 1, यदाहुः "होहिइ पज्जोसवणा मम य तया अंतराइयं हुज्जा / गुरुवेयावच्चेणं तवस्सि गेलन्नया चेव // 1 // सो दाइ तवोकम्मं पडिवज्जइ जं अणागए काले / एयं पच्चक्खाणं अणागय होइ नायव्वं // 2 // " 1 // अथ द्वितीयं अतिक्रान्तं-अतिक्रान्तप्रत्याख्यानं यत् पर्युषणादिपर्वणि अतिक्रान्ते यत्तपः क्रियते तत्, यदाहुः - "पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए / गुरुवेयावच्चेणं तवस्सिगेलन्नया चेव // 1 // सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले / एयं पच्चक्खाणं अइकंतं होइ नायव्वं // 2 // " अथ तृतीयं कोटीसहितं प्रत्याख्यानं, एकस्य निष्ठाकाले अन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात् कोटीसहितं 3, यदाहुः "पट्ठवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ अ / जहियं समंति दुन्निवि तं भणइ कोडिसहियं तु // 1 // " अथ चतुर्थं नियन्त्रितप्रत्याख्यानं-मासे 2 अमुष्मिन् दिवसे यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियन्त्रितं, यदाहुः