________________ 116 श्रीयतिदिनचर्या अवचूर्णियुता तदनु पुनः शक्रस्तवं पठति, तत्पठिते उत्थाय 'करेमि भंते ! सामाइय'मित्यादिसूत्रपाठपूर्वं चारित्रदर्शनज्ञानाचारातिचारविशुद्ध्यर्थं कायोत्सर्गत्रिकं करोति, तेषु त्रिषु किं चिन्तनीयं ?, उत्तरार्द्ध तदाह - 'चउवीसत्थय'मिति द्वयोश्चतुर्विंशतिस्तवयुग्मं, यथा रात्रिप्रतिक्रमणे प्रथमे कायोत्सर्गे एकं चतुर्विंशतिस्तवं चिन्तयति, द्वितीयेऽप्येकं, 'साससयं गोसद्ध' इति वचनात्, तृतीये तु निशातिचारांश्चिन्तयति, सा चेयं गाथा "गोसमुहणंगाई आलोए देवसीअअइआरे / सव्वे समाणयित्ता हियए दोसे ठविज्जाहि // 1 // " अर्थश्चायं-गोसं-प्रभातं तस्मादारभ्य मुखवस्त्रिकादौ आलोकयेत् दैवसिकान् अतिचारान् प्राक् यथोक्तान्, ततः सर्वान् समानीय-एकत्र कृत्वा हृदये दोषान्-आलोचनीयान् अतिचारान् स्थापयेदित्यर्थः // 11 // तदनु कं विधि कुरुते तदाह - 'थुइ'त्ति ततः कायोत्सर्गं पारयित्वा 'सिद्धाणं बुद्धाण मिति पठति, ततः संडासकप्रमार्जनपूर्वं उपविशति, ततः पोतिको प्रतिलिख्य वन्दनकं दत्ते, इह पोतिकाप्रतिलेखनपूर्वकस्य वन्दनस्य (स्थाने) पोतिकैव भणिता, पश्चादालोचनं 'इच्छाकारेण संदिसह भगवन् ! राइयं आलोएमि' इति सकलं सूत्रं पठति, तदालोचनानन्तरं 'संथारावट्टणी'ति गाथाभणनं, सा चेयं - संथारावट्टणगी परिअट्टणकी पसारणकी रहठाण बार जो न सरिओ, इतः सव्वस्सवि राई० इच्छाकारेण संदिसह, अत्र गुरोर्वाक्यं-पडिक्कमह, अपरो भणति-इच्छं, पुनः तस्स मिच्छामि दुक्कडं इति भणित्वा पुनरुपविशति, उपविष्टः सन् विधिना-विधिपूर्वेण सूत्रंप्रतिक्रमणसूत्रं भणति, स विधिः कः?, आह "काऊण वामजाणुं हिट्ठा उटुं च दाहिणं जाणुं / सुत्तं भणंति सम्मं करजुयकयपुत्तिरयहरणा // 1 // "