________________ श्रीयतिदिनचर्या अवचूर्णियुता तत्र प्रतिक्रमणविधौ आदावीर्यापथिकी, तदनु कुस्वप्नकायोत्सर्गः, स चायं-क्षमाश्रमणपूर्वं 'कुसुमिणदुसुमिणराईपायच्छित्तविसोहणत्थं काउस्सग्गं करेमि' इत्यादि भणित्वा चतुर्विंशतिस्तवचतुष्कचिन्तनं, ततः पारिते चोच्चैःस्वरेण लोगस्स० आप्रान्ताद्भणनं, तदनु शक्रस्तवः नमोत्थुणमित्यादिकः, ततोऽपि साधुनमनं-प्रत्येक 2 साधुनमस्करणं, पश्चाल्लघुक्षमाश्रमणयुग्मपूर्वं स्वाध्यायकरणं, तदनु जाते प्रतिक्रमणसमये प्रतिक्रमणारम्भः, स चायं समयः_ "जो मासो वट्टतो तस्य य मासस्स ततियमासंमि / जंनामं नक्खत्तं सेसेसु ठिए पडिक्कमणं // 1 // " तत्र प्रतिक्रमणारम्भे चत्वारि क्षमाश्रमणानि, तानि चामूनि-श्रीभगवन् 1 आचार्य 2 उपाध्याय 3 सर्वसाधुरूपाणि 4, इह भगवन्शब्देनार्हन् समग्रैश्वर्यादियुक्तः, आचार्यादयः प्रतीता एव, पश्चात् क्षमाश्रमणपूर्वं 'राई पडिकमणइ ठाउं' इत्यादि भणित्वा भून्यस्तमस्तकः 'सव्वस्सवि राईय' इत्यादिदण्डकं सकलरात्रिकातिचारबीजभूतं भणति // 10 // तस्मिन् दण्डके भणिते पश्चात् किं पठति तदाह - सक्कत्थय सामाइय चरणाइतिगस्स तिन्नि उस्सग्गा / चउवीसइत्थय दोसुं तइए अइआरचिंतणयं // 11 // थुइ पोत्ती आलोअण संथारावट्टणाइयं विहिणा / सुत्तं अब्भुट्ठाणं वंदण खामणय वंदणयं // 12 // सामाई छम्मास तव उस्सरगुज्जोय पुत्ति वंदणयं / उस्सग्गे चिंतियं तवोविहाणमिह पच्चक्खाणे // 13 // इगपंचाइदिणूणं पणमासं जा चइत्तु तेरदिणे / चउतीसाइ दिणूणं चिन्ते नवकारसहियं जा // 14 //