________________ श्रीयतिदिनचर्या अवचूर्णियुता 117 ततोऽपि अभ्युत्थान-ऊर्वीभवनं 'तस्स धम्मस्से'त्यादि, 'वंदामि जिणे चउव्वीसं' इति पर्यन्तभणनं, ततः भणिते सूत्रे वन्दनं-द्वादशावर्तवन्दनकं पश्चात् क्षामणं - 'अब्भुट्ठिओऽह'मित्यादि भणनं, पुनरपि वन्दनं, बृहद्वन्दनकमित्यर्थः // 12 // ततः पुनः को विधिविधेय इत्याशङ्क्याह - वन्दनकानन्तरं सामायिकं-'करेमि भंते ! सामाइयं' तत्पूर्वकं षण्मासतपस उत्सर्गः, तस्मिन् कायोत्सर्गे गुरुणा नमस्कारपूर्वकं पारिते पश्चादन्योऽपि साधुवर्गः कायोत्सर्गं पारयेदिति, यदुक्तं - "भणियंमि नमुक्कारे गुरुणा पारिज्ज तयणु उस्सग्गं एवं कियकम्माइसु अन्नह आणाइया दोसा // 1 // " कायोत्सर्गे पारिते उज्जोअकथनं-'लोगस्स उज्जोअगरे' साद्यन्तभाषणं, पश्चान्मुखवस्त्रिकाप्रतिलेखनं, तदनु वन्दनकयुगलं, वन्दना-नन्तरं कायोत्सर्गचिन्तितं यत्तपः तत्प्रत्याख्यानेन अथ तपोविधानं तपःकरणम् // 13 // तदेवं तपः कथं चिन्तितं तदाह - अत्र कायोत्सर्गे पूर्वं चारित्राद्याचाराणां पृथक्त्वेनालोचितानामिदानीं सम्मिलितानामपि शोधनार्थमयं कायोत्सर्गः सम्भाव्यते, अस्मिन्नुत्सर्गे श्रीवर्धमानविहितं पाण्मासिकतपो यतिरेवं चिन्तयति, 'हे प्राणिन् ! श्रीवर्द्धमानतीर्थे वर्तमानस्तद्विहितं पाण्मासिकं तपः कर्तुं समर्थो न वा ?, प्राणी प्राह-न शक्नोमि, तर्हि एकेन दिनेनोनं पाण्मासिकं कर्तुं शक्तोऽसि ?, प्राणी प्राह-न शक्नोमि, तर्हि द्वित्रिचतुःपञ्चदिनोनं पाण्मासिकं तपः कर्तुं शक्नोषि ? पुनर्वदति-न शक्तोऽस्मि, तर्हि षड्सप्ताष्टनवदशदिनोनं पाण्मासिकं कर्तुं शक्तोऽसि ?, पुनर्वदति-न शक्तोऽस्मि,