________________ श्रीयतिदिनचर्या अवचूर्णियुता 113 निवर्तयिष्यते, अतोऽस्मिन् एकस्मिन् समाप्ति नीते स्तोकं पापं स्यात्, अनेकप्राणिसंहारपापं निवर्तते, अतः स्तोकव्ययेन बहुलाभः, उक्तमस्ति"तम्हा सव्वाणुन्ना सव्वनिसेहो य पवयणे नत्थि / आयं वयं तुलिज्जा लाहाकंखिव्व वाणियओ // 1 // " इति विचिन्त्योत्सर्गापवादविधिज्ञैस्तैरुक्तः सः-इदमौषधं त्वया कस्याप्युक्तं न वा ?, तेनोक्तं-नो कस्यापि परमनिधानवत्, सूरिजगौतर्हि भव्यं कृतं, परमनेनौषधेन तव बहुपापं लाभः स्तोकः, अतोऽन्यदौषधं ते कथयामः येन तव अक्षयसुवर्णदायकः सुवर्णपुरुषः सिध्यति, प्राह-स्वामिन् ! तदौषधमपि वद, सूरिर्जगौ-द्वारि अर्गलां दत्त्वा अपवरकान्तः एतदौषधं जलकुण्डिकायां क्षिप्तं सुवर्णपुरुषं प्रकटयिष्यति, तेन तत् तथा विहितं, व्याघ्रो निःसृतः, तेन सो घातितः, स तु व्याघ्रः सम्मूछेजोऽन्तर्मुहूर्तजीवी स्वयमपि मृतः, एवमाचार्यैः पापवृद्धिनिवारयित्वा गुरुभिः शिष्येण सहालोचना गृहीता, सुगतिं जग्मतुः, अतो भव्यैः प्राणिभिरिति विचार्य रात्रिन्दिवं भाषासमितिः पालनीया, विशेषतो निशायां गाढं न वक्तव्यं इति भाषाऽसमितौ साधुकथा // 7 // पुनरपि मुनिर्निशान्ते किं करोति तदाह - कालियसुअभणणत्थं गिण्हइ पाभाइयं खणे कालं / पडिकमइ तहा जह दस पडिलेहाणंतरं सूरो // 8 // कालिकश्रुतप्रभणनार्थं कालेन-कालग्रहणेन गृहीतं श्रुतं कालिकश्रुतं, तत्र श्रुतं द्वेधा-कालिकमुत्कालिकं च, तद्भणनार्थं क्षणेप्रस्तावे पाभाइयकालं गृह्णाति, उक्तं च - "कालग्गहणावसरे पत्ते पाभाइयं तओ कालं / कालियसुअपढणत्थं दुन्नि जहन्नेण गिण्हंति // 1 // "