________________ 112 श्रीयतिदिनचर्या अवचूर्णियुता ग्रतोऽढौकि, भणितं च-भगवन् ! युष्मद्वचःप्रसादादहं धनी जातः, एतद् गृह्णीध्वं प्रसादात्, यथा मम समाधिर्भवति, ऊचुः सूरयो-वयं निर्ममा निर्ग्रन्थाः त्यक्तसङ्गाः, किं प्रयोजनं धनेनास्माकं ?, अन्यच्च-अस्माकं प्रसादात्ते धनाप्तिः कथं ?, मात्स्यिकेन पूर्वो रात्रिवृत्तान्तः उक्तः, गुरुभिः पापभीरुभिश्चेतसि चिन्तितं-आः स्वामिन् भगवन् अर्हन् ! विस्मृतिवशात् प्रमादाच्च स्तोकमात्रवचनासंवरेण मम कियत् पापं लग्नं ?, अन्यच्च - कर्हिचित् मत्स्यबन्धकेनानेनान्यस्य कस्यायमौषधयोग उपदिष्टो भविष्यति तदाऽतितीव्रतरा वृद्धिर्भविष्यति, अत एवोक्तं युक्तमिदं - "वरं हालाहलं पीयं, वरं अग्गीअ सेवणं / वरं सप्पेण संवासो, मा पमाएण संगओ // 1 // " किञ्च"जयणा य धम्मजणणी जयणा धम्मस्स पालणी चेव / तव्वुड्डिकरी जयणा एगंतसुहावहा जयणा // 2 // " अतः प्राणिना यतनैव कार्या, प्रमादः परिहर्तव्यः, उक्तं च शय्यंभवाचार्यैः"कहं चरे ? कहं चिट्ठे ?, कहमासे ? कहं सए ? / कहं भुंजंतो ? भासंतो ?, पावं कम्मं न बंधइ // 1 // जयं चरे जयं चिट्टे, जयमासे जयं सए। जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ // 2 // " तावत् मम जीवोत्पत्ति भेदेन शिक्षाणां गाढस्वरेण कथयतः इयती पापवृद्धिरभूत्, परमसावुपायेन पापान्निवार्यते तदा श्रेयः, अन्यथा धर्मोपदेशदानेनासौ धर्मार्थी सन् मात्स्यिकः पापादस्मात् सर्वथा न