________________ श्रीयतिदिनचर्या अवचूर्णियुता पथिकी // 4 // पुनः ततोऽपि किं करोति तदाह - . गमणागममालोइय कयकुसुमिणकाउसग्गपच्छित्तो / जिणमुणिवंदणपुचि उवउत्तो कुणइ सज्झायं // 5 // तस्या ईयापथिक्या अनन्तरं गमनागमनमालोचयति, अत्र त्रिभङ्गी गमनं 1 आगमनं 2 गमनागमनं चेति 3, अत्र प्रस्तावाद् गमनागमनभङ्गः तमालोचयित्वा कृतकुस्वप्नकायोत्सर्गप्रायश्चित्तः कृतं विहितं कुस्वप्नविध्वंसनार्थं कायोत्सर्गरूपं प्रायश्चित्तं-आलोचना(दि)रूपं येनासौ, सर्वमनुष्ठानं ईर्याप्रतिक्रमणपूर्वमेवोद्दिष्टं, आह च - "इरियावहियाए अपडिक्कंताए न किंचि कप्पइ चेइयवंदणसज्झायआवस्सयाइ काउं।" इति वचनात्, क्षमाश्रमणपूर्वं 'कुसुमिणदुसुमिणओहडावणियं राईपायच्छित्तविसोहणत्थं काउस्सग्गं करेमि / ' तत्र चतुर्विंशतिस्तवचतुष्कचिन्तनं, ततोऽपि किं कुरुते ?जिनमुनिवन्दनपूर्व जिना-भगवन्तो मुनयः-साधवस्तयोर्वन्दनंनमस्कारस्तत्पूर्वं तत्पुरःसरं उद्युक्तः१-उद्यमपरः प्रमादरहितः करोति स्वाध्याय, अत्र सर्वसाधुरेव कर्ता बोद्धव्यः, यदाहु:"जामिणि पच्छिमजामे सव्वे जग्गंति बालवुड्डाई / परमिट्ठिपरममंतं भणन्ति सत्तट्ठवाराउ // 1 // इरियं पडिक्कमंते कुसुमिणदुसुमिणनिवारणोसग्गं / सम्मं कुणंति निज्जूढपमायनिद्दा महामुणिणो // 2 // पाणिवहप्पमुहाणं कुसुमिणभावे भवन्ति उज्जोया / चत्तारि चिंतणिज्जा सनमुक्कारा चउत्थस्स // 3 // 1. मूले - उवउत्तो।