________________ 108 श्रीयतिदिनचर्या अवचूर्णियुता किं नायरामि किच्चं ? किं कियमहियं ? अभिग्गहो को वा? / अप्पा परोऽवि पासइ किं मह ? इय चिंतइ महप्पा // 3 // तथेह साधुरिदं चिन्तयति, अहं किं कृत्यं नाचरामि-किं धर्मकार्य न करोमि ?, मया अधिकं धर्मकृत्यं किं कृतं-किमाचरितं वा?, अथवा मम कोऽभिग्रहो-नियमविशेषः, नियमस्य प्रतिरूपादिषु चतुर्दशगुणेषु विद्यमानत्वात्, यदाहुः - "पडिरूवो तेयस्सी" त्यादि 2, तथाऽऽत्मा परश्च पश्यति किं मम इति महात्मा-गरिष्ठ इति चिन्तयति, यदाहुः - "किं सक्कणिज्ज कज्जं न करेमि अभिग्गहो अ को उचिओ ? / किं मह खलियं जायं ? कह दियहा मज्झ वच्चंति ? // 1 // कह नवि पमायपंके खुप्पिस्सं ? किं परो व अप्पो वा / मह पेच्छइ आयारं ? इय कुज्जा धम्मजागरियं // 2 // " // 3 // तत्र पूर्वोक्तं सर्वं स्मृत्वा कायिकी कथं कुरुते इत्याह - आवस्सियाएँ थंडिल्लदेसे गंतूण काइयं काउं। निसीहियं भणंतो पविसइ इरियं पडिक्कमइ // 4 // इह अवश्यं भवा आवश्यकी तया आवश्यक्या-आवसहीइतिशब्दरूपया स्थण्डिलदेशे-मात्रकपरिष्ठापनभूभागे गत्वा गमनं विधाय कायिकी कृत्वा-लघ्वी निष्पाद्य निस्सीहि इति भणन्-निस्सीहिशब्दं उच्चरन् वसति प्रविशति-प्रवेशं करोति, प्रविष्टः सन् ईर्यापथिकी प्रतिक्रामति, तत्र ईरणं ईर्या-गमनं तद्युक्तः पन्थाः ईर्यापथः तत्र भवा ईर्यापथिकी-विराधना जन्तुबाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ईर्यापथिकीत्युच्यते, यद्वा ईर्यापथ:-साध्वाचारः, आह च - 'ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतं' तत्र भवा ईर्यापथिकी-विराधना, नद्युत्तरणशयनभोजनादिभिः प्राणातिपातादिका साध्वाचारातिक्रमरूपा सा ईर्या