________________ 106 श्रीयतिदिनचर्या अवचूर्णियुता युगप्रधानश्रीकालिकाचार्यसन्तानीयश्रीभावदेवसूरिसङ्कलिता श्रीमतिसागरसूरिसूत्रितावचूर्णियुता [ श्रीयतिदिनचर्या / प्रणम्य जगदानन्दवृन्दकन्दकदं जिनम् / श्रीपाश्र्वं दिनचर्याया, वक्ष्ये व्याख्यां ससूत्रगाम् // 1 // शान्ति तनोतु सततं कृतपापशान्तिः, शान्तिर्जिनोऽघजलसन्ततिसागरात्रिः / ख्यातिः क्षितौ क्षितिपतौ किल यस्य लोके, धर्माद्धिये च भुवि गर्जति सम्प्रतीयम् // 2 // यत्राभूद् गणभृत् प्रभावनिधिभृत् केशी, प्रदेशीलसत्सत्सम्यक्त्वगुणाप्तिज्ञप्तिपदकृत् स्वद्धिसंयच्छकः / तस्यैतद्दिनकृत्यमेतदखिलं गच्छस्य चान्यस्य च, व्याख्यां बोधिनिबन्धनं गणिवरस्याहं नये सूत्रतः // 3 // अथार्या - दिनचर्यां श्रुतधुर्यां कृतवान् श्रीभावदेवसूरिवरः / सुकरां तनुते रम्यां मतिसागर एष तवृत्तिं // 4 // अथ ग्रन्थस्याद्यगाथां सनमस्कारां विवृणोति - वीरं नमिऊण जिण सुआणुसारेण सुद्धभावेण / वुच्छामि समासेणं सामायारिं जईण हियं // 1 // - अहं सामाचारी सम्यक् आचर्यते-क्रि यते सामाचारी तां वक्ष्यामि-कथयिष्यामि, केन ?-समासेन-सक्षेपेण, न तु विस्तरेण, कथम्भूतां ?-यतिहितां-संयमिनां हितकारिणी, किं कृत्वा ?-वीरं