________________ श्रीयतिदिनचर्या या उपक्रमः 105 श्रीभावदेवसूरिसूत्रिताया यतिदिनचर्याया उपक्रमः ऐदंयुगीनेषु न कोऽपि जैनः युगप्रधानोत्तमश्रीकालकाचार्याणामभिधानस्याज्ञः, तेषामेवातिविश्रुततमानामन्वयोत्था एते श्रीयतिदिनचर्याया विधायकाः सूरिवर्याः श्रीभावदेवाभिधाः / यद्यपि साधूनामहोरात्रचर्या श्रीओघनिर्युक्त्युत्तराध्ययनादिषु न्यस्ता सानुक्रमा तथापि विहारादिसामाचार्यादिना गुपिलेति केवला साधुदिनचर्या प्राभातिकजागरणादारभ्य संस्तारकविधिपर्यवसाना स्पष्टरूपा निबद्धा पूज्यैरस्यां, यद्यपि पूज्यतमैः श्रीदेवसूरिभिर्विहिता यतिदिनचर्या, विस्तृता परं सेति सङ्क्षिप्तरुचीनामुपयुक्ततमैषेति निश्चित्य मुद्रितैषा, विवृतिरपि श्रीमद्भिर्मतिसागरैर्विहिता लघ्वीति साऽपि सहैवानया मुद्रिता, सफलयन्तु च सज्जना अनुष्ठायैतदुक्तं परिश्रममस्मदीयमिति शम् / आनन्दसागराः शीहोर (सिंहपुर) श्रीवीरसंवत 2463 फाल्गुन कृष्णा प्रतिपद्