________________ नैषधीयचरिते टीका-तदा अवतरणसमये पायोः पतत्रयोः पुटेन दयेन ( 10 तत्पु० ) आहतायाः ताडितायाः ( तृ० तत्पु०) क्षितेः पृथिव्या आकस्मिकोऽस्माद्भवः अचिन्तितोपनत इति यावत् , यः स्वनः शब्द उच्चचार उदमवत् स शब्दः अन्यत्र अन्य प्रदेशे विन्यस्ते प्रहिते प्रेरिते इति यावत् ( स० तत्पु० ) दृशौ नयने ( कर्मधा० ) यथा तथाभूतायाः ( ब० वो० ) तस्या दमयन्त्या अन्तःकरणं मनो द्राक् सटिति संभ्रान्तं ससम्भ्रमं चकितमित्यर्थः चकार कृतवान् / अकस्मात् अवतरण-समयं हंसपक्ष फटफटात्कारेण दमयन्ती चकित-चकिता जातेति भावः / / 2 // व्याकरण-प्राकस्मिक-अकस्माद् भव इति अकस्मात्+ठक् , टिलोप / स्वन्ः स्वन्+ अप ( भावे ) / उच्चचार-यहाँ उत्पूर्वक चर् को प्राप्त आत्मने. इसलिए नहीं हुआ कि यह यहाँ अकर्मक है, भात्मने० सकर्मक में ही होता है। संभ्रान्त सम् +/भ्रम् +क्तः ( कर्तरि ) / अनवाद-उस समय पंखों से ताडित हुई पृथिवी से जो अकस्मात् शब्द हुआ, उसने दूसरी जगह निगाह डाली हुई उस ( दमयन्ती ) के मन को एकदम चौंका दिया / / 2 / / टिप्पणी-यहाँ भी प्राणि-स्वभाव वर्णन होने से पूर्ववत् स्वमावोक्ति है। श्लोकाओं में 'आर' की तुक बनने से अन्त्यानुप्रास और अन्यत्र वृत्त्यनुपास है। नेत्राणि वैदर्मसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि / प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मव चेतांसि यतव्रतानाम् // 3 // अन्वयः-वैदर्भ सुता-सखीनाम् नेत्राणि विमुक्त-तत्तद्-विषय ग्रहाणि ( सन्ति ) एकम् निरुपाख्यरूपम तम् यत-व्रतानाम् चेता'स विमुक्त-तत्तद्-विषयाणि सन्ति एकम् निरुपाख्यरूपं ब्रह्म इव प्रापुः। टीका-वैदर्भस्य भीमस्य सुता पुत्री ( 10 तत्पु० ) तस्याः सखीनाम् आलीनाम् ( 10 तत्पु०) नेत्राणि नयनानि विमुक्तः परित्यक्तः तत्तद्-विषयग्रहः ( कर्मधा० ) तेषां तेषाम् अमुकामुकानां केलि. साधनभूतानां कन्दुकपुष्पर तादीनां विषयाणाम् (10 तत्पु० ) ग्रहः ग्रहणं ( 10 तत्पु० ) यः तथाभूतानि ( व० वी०) सन्ति एकम् एकाकिनम् निरुपाख्यम् उपाख्यातुमशक्यम् अवर्णनीयमिति यावत् रूपं सौन्दर्यम् ( कर्मधा० ) यस्य तथाभूतम् ( ब० वी० ) तं हंसम् , यतानि नियतानि व्रतानि अहिंसादीनि येषां तथाभूतानाम् योगिनामित्यर्थः ( ब० वी० ) चेतांसि मनांसि विमुक्तः त्यक्तः तत्तद्विषयेषु स्रक्चन्दनवनितादिषु ग्रहोऽङ्गीकार आसक्तिरिति यावत् ( स० तत्पु० ) यस्तथाभूतानि ( 50 बी० ) सन्ति एकम् अद्वितीयं निरूपाख्यं बाचामगोचरं 'न तत्र वाग् गच्छतो'ति श्रुतेः रूपं स्वरूप यस्य तथाभूतम् (ब० वी०) ब्रह्म परमात्म-तत्वम् इव प्रापुः / / 3 / / व्याकरण-वैदर्भः विदर्माणां राजा इति विदर्भ+अण् / सुता /+क्त+टाप् / ग्रहः /ग्रह + अच् ( भावे ) / निरुपाख्य निर् +उप+आ+/ख्या+यत् / अनुवाद-विदर्भ-नरेश की पुत्री ( दमयन्ती) को सखियों की आँखें -जो उन-उन ( क्रीडा की ) वस्तुओं का ग्रहण छोड़ बैठी थीं-अवर्णनीय रूप ( सौन्दर्य ) वाले उस अकेले हंस को देख बैठो, जैसे कि योगियों के मन, जिन्होंने उन-उन ( सी आदि सांसारिक ) विषयों का ग्रहण ( लगाव ) होर रखा है, अनिर्वचनीय रूप ( स्वरूप ) वाले अद्वितीय ब्रह्म को देखते हैं // 3 //