________________ 260 नैषधीयचरिते अन्वय-हे मन्मथ ! परापकृतौ खम् इव कः अपि कृती न ददृशे, न च शुभ्रवे, यः ज्वलता मात्मना जगन्ति परिरभ्य वरुयितुम् दहनात् स्वम् अदहः / / टीका-हेमन्मथ कामदेव ! परेषाम् अन्येषाम् अपकृती अपकारे ( 10 तत्पु० ) लोकाहितानुष्ठाने इत्यर्थः स्वम् इव वत्सदृशः कः अपि कश्चिदपि कृती कुशलः ('कृती कुशल इत्यपि' इत्यमरः) न दरशे दृष्टः न च शुश्रुवे श्रुतः, यः त्वम् ज्वलता दशमानेन आत्मना स्वेन जगन्ति त्रीणि भुवनानि परिरम्य आश्लिष्य ज्वलयितुं दग्धुम् दहनात महादेवस्य तृतीयनेत्राषिोऽग्नेः कारणाद स्वम् आत्मानम् अदहः दग्यवान, येन केनापि प्रकारेण जगदपकर्तव्यम् इति मनसि निधाय स्वम् आत्मानमपि हुतवानित्यहो ते परापकारकुशलातिशय इति मावः / / 98 // व्याकरण-मन्मथः मनातीति /मथ्+अच् ( कर्तरि ) मनसः मथ इति (प. तत्पु.) निपातनात् साधुः / अपकृति अप+/+क्तिन् ( मावे ) / कृती कृतम् अस्यास्तीति कृत+ इन् ( मतुबर्थ ) / दाशे शुश्रुवे लिट् ( कर्मवाच्य ) / अनुवाद-हे कामदेव ! दूसरों की बुराई करने में तुझ जैसा चतुर न तो देखा, और न ही सुना, जो तू स्वयं जलता हुआ ( तीनों ) लोकों का मालिंगन करके जलाने हेतु ( महादेव को तृतीय नेत्रकी ) अग्निसे अपने को जला बैठा / / 98 / / टिप्पणी-विद्याधर ने यहाँ उपमा और अतिशयोक्ति कहा है। किन्तु हमारे विचार से 'तेराजैसा न देखा, न सुना' कह देने से जब उपमान का अभाव ही बताया गया है तो यह अनन्वय अलंकार बनेगा उपमा नहीं अतिशयोक्ति इस लिए उन्होंने कही कि-यहाँ नेत्राचि और अग्नि में अभेदाध्यवसाय हो रखा है। 'कृतो' 'कृती,' 'दहो' 'दह' और 'ज्वल' 'ज्वल' में छक और अन्यत्र वृत्यनुपास है / 'कृती' शब्द अच्छ अर्थ में प्रयुक्त होता हुआ भी यहाँ उपहास-परक है और विपरीत लक्षणा द्वारा 'मूर्ख' का बोधक है / महादेव की नेत्राचि के सम्बन्ध में पीछे श्लोक 80 देखिए। स्वमुचितं नयनाचिषि शम्भुना भुवनशान्तिकहोमहविः कृतः। तव वयस्यमपास्य मधु मधुं हतवता हरिणा वत किं कृतम् / // 99 // अन्वय-शम्भुना नयनाचिंषि त्वम् भुवनहविः कृतः ( इति ) उचितम् / तव वयस्यम् मधुम् अपास्य मधुम् हतवता हरिपा किम् कृतम् वत। टीका-शम्भुना शङ्करेण नयनस्य स्वतृतीयनेत्रस्य भर्चिषि वालायां ( 10 तत्पु० ) स्वम् भुवनानां लोकानां शान्तिकः शान्ति पयोजनकः ( 10 तत्पु० ) यः होमः हवनम् यज्ञ इति यावत (कर्मधा० ) तस्मै हविः हव्यम् ( च० तत्पु० ) कृतः विहित इति उचितम् सम्यगेव / लोकानां यथा शान्तिः स्यात् तथा लोकशान्त्यर्थयशं त्वं स्वाहा कृत इत्यर्थः, लोकोपद्रवकारकस्त्वं भस्मतां नीत इति यावत् / सव वयस्यम् मित्रम् मधुम् वसन्तम् ( 'स्याच्चैत्रे चैत्रिमो मधुः' इत्यमरः) अपास्य परित्यज्य मधुम् एतरसंशक राक्षसं हतवता मृत्यु नयता हरिणा विष्णुना किं कृतम् न किमपोति काकुः इति वत खेदे / शिवेन जगसीडकं कामं विनाश्य जगदुपकारः कृतः किन्तु विष्णुना कामवदेव