SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ स्वं चैव हि नरश्रेष्ठ देवाश्चन्द्रपुरोगमाः। आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः / / 10 / / ततोऽहं लोकपालानां संनिधौ त्वां नरेश्वर / वरयिष्ये नरव्याघ्र नैवं दोषो मविष्यति" // 10 // एवमुक्तस्तु वेदा नलो राजा विशांपते / भाजगाम पुनस्तत्र यत्र देवाः समागताः॥११०।। तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः / दृष्ट्वा चैनं ततोऽपृच्छन् वृत्तान्तं सर्वमेव तम् // 111 // "कच्चित् दृष्टा त्वया राजन् दमयन्ती शुचिस्मिता। किमब्रवीच्च नः सर्वान् वद भूमिप तेऽनघ" // 112 / / नक उवाच मवद्भिरहमादिष्टो दमयन्त्या निवेशनम् / प्रविष्टः सुमहाकक्षं दण्डिमिः स्थविरैर्वृतम् / / 19 / / प्रविशन्तं च मां तत्र न कश्चिद् दृष्टवान् नरः। ऋते ता पार्थिवसुतां मवतामेव तेजसा // 114 // सख्यश्चास्य मया दृष्टास्तामिश्चाप्युपलक्षितः। विस्मिताश्चामवन् सर्वा दृष्ट्वा मां विबुधेश्वराः // 115 / / वण्यमानेषु च मया मवत्सु रुचिरानना। मायेव गतसंकल्पा वृणीते सा सुरोत्तमाः / / 11 / / अब्रवीच्चैव मां वाला "आयान्तु सहिताः सुरा।। स्वया सह नरव्याघ्र मम यत्र स्वयंवरः / / 117 // वेषामहं संनिधौ त्वा वरयिष्यामि नैषध / एवं तव महाबाहो दोषो न मवितेवि ह" // 11 // एतावदेव विबुधा यथावृत्तमुपाहृतम् / मयाऽशेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः // 119 / / अथ काले शुमे प्राप्ते तिथौ पुण्ये क्षणे तथा / माजुहाव महीपालान् मीमो राजा स्वयंवरे // 120 / / तच्छ्र त्वा पृथिवीपालाः सर्वे हृच्छयपोडिताः। त्वरिताः समुपाजग्मुर्दमयन्तीममीप्सवः // 121 / / कनकस्तम्भरुचिरं तोरणेन विराजितम् / विविशुस्ते नृपा रहं महासिंहा... इवाचलम् / / 122 // तत्रासनेषु विविषेष्वासीनाः पृथिवीक्षितः। सुरमिस्रग्धराः सवें प्रमृष्टमणिकुण्डलाः // 123 / /
SR No.032784
Book TitleNaishadhiya Charitam 02
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year
Total Pages402
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy