________________ परिशिष्टम्-२ एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ / अटमानौ महात्मानाविन्द्रलोकमितो -- गतौ // 45 // नारदः पर्वतश्चैव महापाशौ महानती। देवराजस्य मवनं विविशाते सुपूजितौ / / 46 / / तावर्चयित्वा मघवा ततः कुशलमव्ययम् / पप्रच्छानामयं चापि तयोः सर्वगतं विभुः / / 47 / / नारद उवाच आवयोः कुशलं देव सर्वत्रगतमीश्वरः / लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो // 4 // नारदस्य वचः श्रुत्वा पप्रच्छ बल-वृत्रहा। धर्मज्ञाः पृथिवीपालारत्यक्तजीवितयोधिनः // 49 / / शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः / अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् // 50 // क्व नु ते क्षत्रियाः शूराः न हि पश्यामि तानहम् / मागच्छतो महीपालान् दयितानतिथीन् मम // 51 // नारद उवाच एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत / 'शृणु मे मगवन् येन न दृश्यन्ते महीक्षितः / / 52 // विदर्भराशो दुहिता दमयन्तीति विक्षता / रूपेष समतिक्रान्ता पृथियां सर्वयोषितः / / 53 // तस्याः स्वयंवरं शक ! मविता न चिरादिव / तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः।। 54 // तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः / कांक्षन्ति स्म विशेषेण बल-वृत्रनिषूदन / / 55 / / एतस्मिन् कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य समीपममरोत्तमाः॥५६॥ ततस्ते शुभवुः सर्वे नारदस्य वचो महत् / / अत्वेव चाब्रुवन् हृष्टा गच्छामो वयमप्युत // 57 // ततः सर्वे महाराशे सगणाः सहवाहनाः। विदर्माननुजग्मुस्ते यतः सवें महीक्षितः / / 58 / / नकोऽपि राजा कौन्तेय अत्वा राशं समागमम् / अभ्यगच्छददीनारमा दमयन्तीमनुव्रतः / / 59 / /