________________ नैषधीयचरिते सफलं ते - मवेज्जन्म रूपं चेदं मुमध्यमे / वयं हि देवगन्धर्वमनुष्योरगराक्षसान् // 29 // दृष्टवन्तो न चास्मामिदृष्टपूर्वस्तयाविषः / त्वं चापि रत्नं नारीणां नरेषु च नको वरः // 30 // विशिष्टया विशिष्टेन संगमो गुणवान् मदेत् / एवमुक्ता तु हंसेन दमयन्ती विशांपते ! // 31 / / अब्रवीत् तत्र तं हसं त्वमप्येवं नले वद'। तथेत्युक्त्वाण्डजः कन्या विदर्भस्य। विशांपते / पुनरागम्य निषधान् नले सर्व न्यवेदयत् / / 32 / / दमयन्ती तु तच्छ्रुत्वा वचो. हंसस्य भारत ! / ततः प्रभृति न स्वस्था नलं प्रति बभूव सा / / 33 // ततश्चिन्तापरा दोना विवर्षवदना कृशा। बभूव दमयन्ती तु निःश्वासपरमा तदा // 34 // ऊर्ध्वदृष्टिानपरा बभूवोन्मत्तदर्शना / पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना / / 35 // न शय्यासनमोगेषु रति विन्दति कहिंचित् / न नक्तं न दिवा शेते हाहेति रुदती पुनः / / 36 / / तामस्वस्थां तदाकारां सख्यस्ता जशुरिङ्गितैः / ततो विदर्भपतये दमयन्त्याः सखीजनः / / 37 / / न्यवेदयत् तामस्वस्थां दमयन्ती नरेश्वरे / तच्छ्रत्वा नृपतिमीमो दमयन्ती सखीगणात् // 38 / / चिन्तयामास तत् कार्य सुमहत् स्वां सुता प्रति / किमर्थ दुहिता मेऽद्य नातिस्वस्थेत्र लक्ष्यते / / 39 / / स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् / अपश्यदात्मना कार्य दमयन्त्याः स्वयंवरम् / / 40 / / स संनिमन्त्रयामास महीपालान् विशापतिः / एषोनुभूयतां वाराः स्वयंवर इति प्रभो / / 41 / / श्रुत्वा नु पार्थिवाः सवें दमयन्त्याः स्वयंवरम् / अमिजग्मुस्ततो भीमं राजानो मीमशासनात् // 42 // हस्त्यश्वरथपोषेण पूरयन्तो वसुन्धराम् / विचित्रमाल्याभरपैबलदृश्यः स्वलंकृतैः / / 43 // तेषां मीमो महाबाहुः पार्थिवानां महात्मनाम् / यथार्हमकरोत् पूजां तेऽवसंस्तत्र पूजिताः // 44 //