________________ परिशिष्टम्-१ भूपः कोऽपि नलोऽनलद्युतिरभूत्तत्रानुरागं दधे, वैदर्मी दमयन्तिका गुणरुचिः सोऽप्यास तस्यां स्पृही। जातु स्वान्तविनोदनाय विरही लीलाटवीं पर्यटन्, हैमं हंसमसौ निगृह्य तरसा दूनं दयालु हो / 'राजस्तां दमयन्तिकां त्वयि तथा कर्तास्मि रक्तां यथा, शक्रादीनपि हास्यतीति नृपतिं हंसः कृतज्ञोऽभ्यधात् / "एवं चेत्खग साधयेप्सित मिति प्रोक्तः स राज्ञ मुदा, दागुड्डीय ददर्श कुण्डिनगतो भैमीमटन् निष्कुटे // मामुद्दिश्य किमेषि भैमि, चटुविद् ! नालोऽस्मि विस्तेरुचिइचेन्मय्यस्ति नवं वृणीष्व' बत तामुक्त्वा ग्यरंसीद “वयः। 'तस्मै ब्रूहि तथा यथा स * नृपतिर्मामुद्वहेदित्युपादिष्टो भीमजया खगो द्रुतगतिः सिद्धिं नलायालपत् // १-गृहारामे / २-ठसम्बन्धी। ३-४-पक्षी।