________________ नैषधीयचरिते नास्त्यन्तो यस्य दर्शने' इत्यमरः। अस्तु जायताम् दयालोंचनयोः तृप्तिकृते चन्द्रयोर पि दयेन भाव्यम् , द्वितीयश्चन्द्रश्च नलास्यं भवस्विति भावः / एतेन लोचनयोश्च कोग्त्वं गम्यते // 119 / / ___ व्याकरणा--क्षमः क्षमते इति /क्षम् + अच् ( कर्तरि ) / द्वितीयः द्वयोः पूरण इति द्वि+ तीय। श्रासेचनकः आ = समन्तात् सिच्यतेऽनेनेति आ+सिच्+ल्युट् ( करणे ) आसेचनम् एवेति आसेचन+कः ( स्वार्थे ) / अनवाद-एक चन्द्रमा तुम्हारे दो नयनों की तप्ति किसी तरह भी नहीं कर सकता है, इस. लिए वह नल के मुख-रूपी दूसरा चन्द्रमा अपने साथ लिये हो तुम्हारे दो नयनों की तप्ति करने वाला बने / / 119 / / टिप्पणी-यहाँ नल के आस्य पर चन्द्रत्वारोप होने से रूाकालंकार है, जिसके साथ आशीरलंकार का संकर है / शब्दालंकारों में 'चना' 'चन' में छेक और अन्यत्र वृत्त्यनुप्रास है / अहो तपःकल्पतरुनलीयस्त्वत्पाणिजाङ्गस्फुरदङकुरश्रीः / स्वद्ध्युगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः // 120 // यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवास्ते / अङ्गम्रदिना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव // 121 // (युग्मकम्) अन्धयः-नलीयः तपः-कल्पतरुः अहो !, यः त्वत्पाणिजाग्रज-स्फुर दङ्करश्रीः, ( अस्ति ) यस्य त्वद्-भ्रयुगम् द्विपत्री खलु; तव अधरः यत्कलम्बः रज्यति, यः ते कराभ्याम् नवः पल्लवितः, यः तव स्मितेन कोरकित: आस्ते, यः तव अङ्ग-म्रदिम्ना पुष्पितः, य: तव एव स्तन-श्रिया फलितः // टीका नलस्यायं क्लीयः नल-सम्बन्धी तपः स्वत्याप्ति कृते कृतं तपः तपस्या एव कल्पतरुः कल्पवृक्षः (कर्मधा० ) अहो आश्चर्यकर इत्यर्थः, यः कल्पतरुः तब ये पाणिजाः पाणिभ्यां जायन्ते इति तथोक्ताः ( कर्मधा० ) करजा नखा इति यावत् तेषां यानि अग्राणि अग्रभागाः (10 तत्पु० ) तानि एव स्फुरन्ती विभासमाना प्रङ्करश्रोः ( उभयत्र कर्मधा०) अङ्क राणा प्ररोहापां श्रीः शोभा (ष० तत्पु०) यस्य तथाभूतः (ब० बी०) अस्तीति शेषः; यस्य कल्पतरोः तव भ्रवोः युगं युगलम् (उभयत्र प० तत्पु०) द्वयोः पत्रयोः समाहार इति ( समाहारद्विगु ) प्रथमोत्सन्नं पत्रद्वयम् खलु निश्चयेन, तव अधरः अधरोष्ठः यरय कल्पतरोः कलम्बो मध्यमाङ्कुरः ( 'कलम्बो मध्यमाङ्कुरः' इत्यमरः) नालमिति यावत् रज्यति रक्तवणों भवति, यः कल्पतरुः ते तव कराभ्यां हस्ताभ्या नवः नूतनः पल्लवितः पल्लवयुक्त: अर्थात् तव करावेव यस्य नवपल्लवी स्तः, यः कल्पतरुः तव स्मितेल मन्दहास्येन कोरकित: सात-कोरकः यस्य स्मितमेव कोरकमस्तीति भावः, यः कल्पतरुः तव अङ्गानाम् अवयवानां म्रदिम्ना मृदुतया (10 तत्पु. ) पुष्पिनः सात-पुष्पा, तव मृदूनि अङ्गानि यस्य पुष्पाणीत्यर्थः, यः कल्पतरुश्च तव एव स्तनयोः कुचयोः प्रिया शोमया (प. तत्पु० ) फलितः सातफलः तव स्तनावेव यस्य कल्पतरोः फलद्यमित्यर्थः / अन्येषां तरूपाम् अङकुर-द्विपत्रादयस्तु क्रमशः एव जायन्ते, नलतपस्तरोस्तु समकालमेवैते जाता अत एवायमाश्चर्यकर इति भावः // 120-121 // ज्याकरण-नलीयः-नल+छ, छ को ईय। द्विपत्री द्विपत्र+ङीप् / पल्लवितः पल्लव+