________________ नैषधीयचरिते अजनमारोहसि दूरदीघां सङ्कल्पसोपानततिं तदीयाम् / श्वासान् स वर्षस्यधिकं पुनर्यद्धयानात्तव स्वन्मयतां तदाप्य // 106 // . अन्वयः-(त्वम् ) दूर दार्शम् तदीयाम् संकल्प सोपान-ततिम् अजस्रम् आरोहसि, यत् पुनः सः अधिक श्वासान् वर्षति, तत् तव ध्यानात् त्वन्मयताम् प्राप्य ( एव ) // टोका-त्वम् दरं यथा स्यात्तथा दीर्घाम् अतिलम्बोम् ( सुप्सुपेति समासः ) तदीयां नलसम्बन्धिनी संकल्पाः विविध-कल्पनाः स्वामवाप्याहमेतदेतत्करिष्ये, स्वमप्यतदेतत् करिष्यतीत्यादिरूपा मनोरथा इति यावत् एव सोपानानि आरोहणानि ( कर्मधा० ) ( 'आरोहणं स्यात्सोपानम्' इत्यमरः ) तेषां तति परम्पराम् पंक्तिमिति यावत् ( 10 तत्पु० ) अजस्रं निरन्तरम् भारोहसि आरोहणं करोषि, स्वामधिकृत्य विविधमानसविचारान् करोतीत्यर्थः; यत् पुनः किन्तु स नलोऽधिकं यथा स्यात्तथा श्वासान् निःश्वासान् वर्षति मुश्चति, यः खलु दूरदोर्चा सोपानततिमारोहति तस्य क्लम-कारपात् श्वास-मोचनं स्वामाविकमेव / त्यत्माप्त्युपायनचिन्तने, तदनवाप्तौ च दुःखीभूय श्वासमोचनमपि तस्य स्वामाविकमेव, तत् श्वासमोचनं तव ध्यानात् चिन्तनात् त्वमेवेति स्वन्मयः तस्य मावस्तत्ता ताम् आप्य, स्वम् आरोहसि, क्लान्तो भूत्वा च वासान् समुञ्चतीति कथमपि युवयोः सायुज्यं विना नोपपद्यते, तस्मात् त्वद्ध्यानात् त्वदूपता, त्वत्सायुज्यं गतोऽस्तीति भावः // 106 // ग्याकरण-तदीयाम् तस्येयमिति तत्+छ, छ को ईय / त्वन्मयताम् युष्मत् + मयट् ( स्वरूपाथ ) मदादेश। प्राप्य आ+आप+ल्यप् / विना आ उपसर्ग लगाये यहाँ क्त्वा को ल्यप् हो ही नहीं सकता। अनुवाद-तुम उस ( नल ) की संकल्प-विकल्परूपी सीढ़ियों की बड़ी लंबी कतार पर लगातार चढ़ती रहती हो। किन्तु वह ( नल) (थककर ) जो खूब साँसें छोड़ता रहता है, वह तुम्हारे ध्यान के कारण त्वद्रुप होकर ( ही साँसें छोड़ता रहता है ) // 106 // टिप्पणी-यहाँ संकल्प पर सोपानत्व का आरोप होने से रूपक है। सीढ़ियों पर चढ़ रही तो दमयन्ती है और थककर सास नल छोड़ रहा है-इस तरह कारण और कार्य के मिन्न-भिन्न स्थानों में होने से असंगति अलंकार है, जिसका रूपक से संकर है। 'तदी' 'तदा' में छेक और अन्यत्र वृत्त्यनुप्रास है / इस श्लोक में कवि ने तोसरी काम-दशा अर्थात् संकल्र बताया है / हृत्तस्य यन्मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् / तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य // 10 // अन्वयः तस्य हृत् रहः यत् त्वाम् मन्त्रयते, मुखम् तत् व्यक्तम् यत् आमन्त्रयते, सा तन्मुखस्य तरिचिती खलु। टीका-तस्य नलस्प हृत् हृदयं रह रहसि एकान्ते इत्यर्थः ( सप्तम्यर्थं रहोऽव्ययम्' इत्यमरः ) यत् स्वाम् दमयन्तीम् मन्त्रयते संमाषते स्वामवाप्य नल: 'आलिङ्गनादिकं प्रिये देहो' स्यादिरूपेण स्वया सह वार्तालापं करोतीत्यर्थः मुखं नलस्य बदनं तत् व्यक्तं स्पष्टं यथा स्यात्तथा यत् आमन्त्रयते भाषते प्रकाशयतीति यावत्, नलस्य हृदयं वद्वियोगदुःखेन यथा व्यथते, तथा विवर्षीभूतेन तन्मुखेन यत् स्पष्ट