________________ 132 नैषधीयचरिते चिन्तामणिम् एतदाख्यमणिविशेष लब्धं प्राप्तुं चिन्ता विचार इच्छेति यावत् नास्ति / मम चित्ते मनसि सकळाश्च ते त्रयो लोकाः ( कर्मधा० ) तेषां समाहारः इति त्रिलोकी ( समाहार द्विगु ) तस्यां सारः मेष्ठः ('सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्यमरः ) ( स० तत्पु०) पद्मवत मुखम् आननं ( उपमित तत्पु० ) यस्य सः (ब० वी०) नल एव सकलत्रिलोक्या सारः स्थिरशिः तत्त्वमिति यावत् (10 तत्पु० ) पद्मो निधि-विशेषो मुखे आदौ यस्य तथाभूतः (ब० वी० ) निधिः पद्मादिनिधिः नवनिधि-रूप इत्यर्थः / चिन्तामणिना मे न कोऽयर्थ इति भावः / / 81 // __ग्याकरण-अनध्यम् अर्घ मूल्यमहतीति अर्घ + यत् अयम् , न अयम् / निधिः निधोयते इव नि+Vघा+किः। करने की चिन्ता नहीं। मेरे मन में ( तो ) सभी तीनों लोकों में श्रेष्ठ कमल-जैसे मुखवाले, एकमात्र यही ( नक ) सभी तीनों लोकों के सारभूत पनादि निधि ( नवनिधि ) हैं / / 81 / / टिप्पणी-यहाँ नल पर निधित्वारोप होने से रूपक, पद्ममुख में लुप्तोपमा तथा श्लेष इन तीनों का सार्य है / चिन्ता' 'चिन्ता' में यमक, 'लब्धे' 'लन्धुम्' में छेक तथा अन्यत्र वृत्त्यनु पास है। श्रुतः स दृष्टश्च हरित्सु मोहाद् ध्यातश्च नीरन्ध्रितबुद्धिधारम् / ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेकशेषः // 82 // अन्वयः-स श्रुतः, हरित्सु मोहात दृष्टः च, स नीरन्धित-बुद्धिधारम् ध्यातः अद्य तत्प्राप्तिः वा असु-व्ययः ( एतत् ) द्वयम् तव हस्ते प्रास्ते ( किन्तु ) एक-शेषः ( स्थास्यति ) / टीका-स प्रसिद्धो नलः मया श्रुतः दूत-चारणादि-मुखात् श्रुतिगोचरीकृतः, हरिरसु दिक्षु ('दिशस्तु ककुमः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः) मोहात् भ्रान्तेः उन्मादादिति यावत् दृष्टः विलोकितश्च, तथा न नलः नीरन्ध्रिता रन्ध्ररहितीकृता ज्ञानान्तरेण व्यवहिता निरवच्छिन्नेति थावत् बुद्धि-धारा ( कर्मधा० ) बुद्धेनलविषयक-शानस्य धारा प्रवाहः ( 10 तत्पु० ) यस्मिन् कर्मणि (40 वी०) यथा स्यात्तथा ध्यातः ध्यानविषयीकृतश्च मया नवकामदशा भुक्ता इति भावः / अब इदानीं मम मत्कर्तृका तस्य नलरय प्राप्तिमः (10 तत्पु० ) वा अथवा दशमकामदशारूपेण अदनां प्राणानां व्ययो नाशः ( प० तत्पु० ) एतत् द्वयम् तव हंसस्य हस्ते करे आस्ते तिष्ठति, मम जीवनं मरणं चेति द्वयं त्वदधीनमित्यर्थः। स्वरसाहाय्येन नलप्राप्तौ जीविष्यामि, तदप्राप्ती च मरिष्यामि। किन्तु दये एकश्वासी शेषः ( कर्मधा० ) स्थास्यतीति शेषः जीवन-मरणयोरेकतरस्य निश्चयामावात द्वयमिति, दयोर्युगपदमावाच्च एकशेष इत्युक्तम् / अत्र शब्द-शक्त्या अपरो दार्शनिकोऽर्थोऽप व्यज्यते तद् यथा-केनापि सुकृतिना 'श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिमः। मत्या च सततं ध्येय एते दर्शन-हेतवः' इत्युक्त्यनुसारेण श्रुतस्य, दृष्टस्य, ध्यातस्य च ब्रह्मास्यतत्त्वस्य प्राप्ति: गुरोर धोना भवति / ब्रह्मापि जीवेश्वर रूपेण दयं प्रतीयमानमपि अन्तत: शुद्ध रूपेण एकशेष एवास्तीति / / 82 // 1 द्वयमेव शेषः-इति पाठा० /