________________ 78 नैषधीयचरितं महाकाव्यम् पङ् और द्वित्व आदि / वात्यामयचक्रचक्रमान्-वातानां समूहो, वात्या, “वात" शब्दसे "पाशादिभ्यो यः" इस सूत्रसे य प्रत्यय और टाप् / वात्यास्वरूपा वात्यामया:, 'वात्या' शब्दसे "तत्प्रकृतवचने मयट्" इस सूत्रसे स्वरूप अर्थमें मयट् / पुनः पुनः क्रमणानि चक्रमाः, “क्रम पादविक्षेपे" धातुसे "धातोरेकाचो हलादेः क्रियासमभिहारे यङ" इस सूत्रसे यङ, द्वित्व होकर घन्, ह्रस्व अकारका लोप और "यस्य हलः" इससे यकारका लोप। चक्रस्य चक्रमाः (10 त०)। वात्यामयाश्च ते चक्रमाः, तान् ( क० घा०)। वितत्य = वि+तन् + क्त्वा ( ल्यप् ) / शिक्षते = शक धातुसे "धातोः कर्मणः समानकर्तृकादिच्छायां वा" इस सूत्रसे सन् प्रत्यय और शिक्षेजिज्ञासायाम्" इससे आत्मनेपद लट+ त / इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 73 / / विवेश गत्वा स विलासकाननं ततः क्षणात्योणिपतिधूतोच्छया / प्रवालरागच्छुरितं सुषुप्सया हरिघंनच्छायमिवाऽम्भसा निधिम् // 74 / / अन्वया-ततः हरिः सुषुप्सया विलासकाऽननं प्रवालरागच्छुरितं घनच्छायम् अम्भमां निधिम् इव स क्षोणिपतिः धतीच्छया गत्वा प्रवालरागच्छुरितं घनच्छायं विलासकाननं क्षणात् विवेश // 74 / / व्याख्या-ततः = अनन्तरं, हरिः = विष्णुः, सुषुप्सया = स्वप्तुम् इच्छया, विलासकाऽननं = सर्पप्राणनं, प्रवालरागच्छुरितं = विद्रुमाऽऽरुण्यरूषितं घनच्छायं = मेघकान्तिम्, अम्भसां= जलानां, निधिम् इव = शेवधिम् इव; समुद्रम् इवेत्यर्थः / सः = पूर्वोक्तः, क्षोणिपतिः = भूपतिः, नल इति भावः / धृतीच्छया= सन्तोषकाक्षया, गत्वा = गमनं कृत्वा; प्रवालरागच्छुरितं = पल्लवारुण्यराजतं, घनच्छायं = सान्द्राऽनातपं, विलासकाननं = क्रीडावनं, क्षणात् =अल्पकालात्, विवेश प्रविष्टः / / 74 / / अनुवाद:-तब जैसे. भगवान् विष्णु सोने की इच्छासे सोके स्थानभूत, मंगोंके वर्णसे रञ्जित, मेधकी समान कान्तिसे युक्त समुद्र में प्रवेश करते हैं वैसे ही राजा नलने दिल बहलानेकी इच्छासे जाकर पल्लवोके वर्णसे अनुरञ्जित, गाढ छायासे सम्पन्न क्रीडावनमें थोड़े ही समयमें प्रवेश किया / / 74 / / टिप्पणी सुषुप्सया = स्वप्तुम् = इच्छा सुषुप्सा, तया "निष्वप् शये" धातुसे सन् प्रत्यय, द्वित्व होकर तदन्तसे "अ प्रत्ययात्" इससे अ प्रत्यय और टाप्-टा। विलासकाऽननं = 'ब' और 'व' में अभेद होनेसें बिले आसते इति बिलामका:, ( सर्पाः ), बिल-उपपदपूर्वक आस धातुसे “ण्वुल्तृचौ" इस सूत्रसे ण्वुल ( अक् )