________________ प्रथमः सर्गः प्रत्यय / विलासकानाम् अननम् (प्राणनम् ), तत् (ष० त०)। प्रवालराग छरितं = प्रवालानां रागः, (10 त० ), "प्रवालो उल्लकादण्डे विद्रमे नवपल्लवे / " इत्यमरः / प्रवालरागेण छुरितः, तम् ( तृ० त .) / घनच्छायंघनस्य ( मेघस्य ) इव छाया यस्य, तम् / व्यधिकरणबहु० ) / क्षोणिपति:-क्षोणेः पतिः ( प० त० ) / धृतीच्छया धृतेः इच्छा, तया ( प० त० ) / गत्वा = गम् घातसे "समानकतंकयोः पूर्वकाले" इस सूत्रसे क्त्वा / घनच्छायं = घना छाया यस्य, तत् ( बड्ड० ) / "छाया त्वनातपे कान्तो" इति विश्वः / विलासकाननंविलासस्य काननं, तत् (ष० त०)। विवेश = "विश प्रवेशने" धातुसे लिट् + तिप् / इस पद्यमें पूर्णोपमा अलङ्कार है / / 74 / / वनाऽन्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे। न्यवति दृष्टिप्रकरः पुरोकसामनुव्रजबन्धुसमाजवन्धुभिः / / 75 // अन्वयः अनुव्रजबन्धुसमाजबन्धुभिः, पुरोकसां दृष्टिप्रकरः वनान्तपर्यन्तं सस्पृहम् पेत्य क्रमेण तस्मिन् अवतीर्णहक्पथे ( सति ) न्यवति // 75 // व्याख्या - अनुव्रजबन्धुसमाजबन्धुभिः = अनुगच्छद्बान्धवसङ्घसदृशः स्नेहादिति शेषः। पुरोकसां = नगरवासिना, दृष्टिप्रकरः = नेत्रसमूहैः ( कर्तृभिः), बनाऽन्तपर्यन्तं = काननोपान्तसीमाम्, उदकप्रान्तपर्यन्तं च, सस्पृहं = साऽभिलाषं यथा तथा, उपेत्य गत्वा, क्रमेण = समयपरिपाट्या, तस्मिन् = नले, अवतीर्णदृक्पथे = अतिक्रान्तनेत्रविषये सति, न्यवर्ति = निवृत्तम् / यथा जनाः प्रवासोन्मुखं चन जलाशयं यावदनुगम्य "ओदकान्तमनुवजेत्" इति शास्त्रेण निवर्तन्ते तथैव बन्धुसदृशानि नागरिकाणां नेत्राणि अपि गच्छन्तं नलं काननोपान्तसीमां यावद् गवा, तस्मिन्नतिक्रान्तनेत्रमार्गे सति न्यवर्तन्त इति भावः / / 75 // / अनुवादः-पीछे जानेवाले बान्धवसमाजोंके सदृश नगरवासियोंके नेत्र उपवन की सीमातक जाकर क्रमसे नलके दृष्टिसे ओट हो जानेपर लौट गये / / 75 / / | टिप्पणी-अनुव्रजबन्धुसमाजबन्धुभिः = अनुव्रजन्ती अनुव्र जन्तः, अनु+ व्रज+लट् / शतृ ) + जस् / बन्धूनां समाजाः ( ष० त०.)। अनुव्रजन्तश्च ते बन्धुसमाजा: ( क० धा० ) / अनुब्रजद्बन्धुसमाजानां बन्धवः तः / ष० त० ) / यहाँपर पिछले बन्धु' शब्दका अर्थ सदृश है / पुरोकसां = पुरम् ओकः येषां ते पुरोक्सः, तेषाम् ( बहु० ) / दृष्टिप्रकरः = दृष्टीनां प्रकराः, तः ( ष० त० ) / वनाऽन्तपर्यन्तं = वनस्य अन्तः ( ष० त• ) / ‘वन" का अर्थ यहाँपर "अटव्य रण्यं विपिनं गहनं वाननं वनम् / " इत्यमरः, इस कोशके अनुसार वन ओर “वने