________________ 388 नैषधीयचरितं महाकाव्यम् अन्वयः-(हे नाथ ! ) वा ते अपि ते स्वयंवरं वजन्तु, वरम् / मया तान् एव प्रसाद्य वरिष्यसे / सर्वथा तान् अपि दया न स्पृशेत् ( इति ) न / ते अपि तावत् मदनः, त्वम् एव वा न // 154 // . ___ व्याख्या - ( हे नाथ ! ) वा = अथ वा, ते = इन्द्रादयो देवाः, अपि, ते = तव, स्वयंवरं = स्वयंवरस्थानं, वजन्तु = गच्छन्तु / वरं = साधु यतः, मया = त्वदनुरागिण्या, तान् एव = इन्द्रादीन् देवान् एव, प्रसाद्य =, प्रसन्नान् कृत्वा, वरिष्यसे स्वीकरिष्यसे, न ते दुराधर्षा इत्याह सर्वथा = सर्वैः प्रकारः, तान् अपि = देवान् अपि, दया = करुणा, न स्पृशेत् ( इति ) न = न आमृशेत् (इति) न, किन्तु स्पृशेदेवेत्यर्थः / ते अपि = इन्द्रादयः अपि, तावत् = तस्मिन्काले, मदनः = कामदेवः, त्वं वा = भवान् वा, न = इन्द्रादयो देवा मदन सदृशा भवत्सदृशा वा निर्दया नो भवेयुरिति भावः // 154 // ____ अनुवाद:-( हे नाथ ! ) अथ वा इन्द्र आदि वे देव भी आपके स्वयं वरण के उत्सवमें जावें / अच्छा है। मैं उन देवताओंको प्रसन्न कर आपका वरण करूंगी / सर्वथा उन देवताओंको दया स्पर्श नहीं करेगी, यह बात नहीं है। ( स्पर्श ही करेगी)। वे देव भी उस समय आपके वा कामदेवके समान निर्दय नहीं होंगे // 154 // टिप्पणी–प्रसाद्य = प्र + सद् + णिच् + क्त्वा ( ल्यप् ) / वरिष्य. से = वन + लट ( कर्ममें )+थास् / स्पृशेत् = स्पृश+लिङ (विधिमें )+ तिप् // 154 // इतोयमालेल्यगतेपि वीक्षिते त्वयि स्मरव्रीडसमस्ययाऽनया। पदे पदे मौनमयाऽन्तरीपिणी प्रतिता सारपसारसारणी // 155 // अन्वयः--(हे महोदय ! ) आलेख्यगते अपि त्वयि वीक्षिते ( सति ) म्मरवीडसमस्यया अनया पदे पदे मौनमयान्तरीपिणी सारघसारसारणी प्रवर्तिता / / 155 / / व्याख्या-(हे महोदय ! ) आलेख्यगते अपि = चित्रगत अपि, त्वयि = भवति, वीक्षिते = अवलोकिते सति, म्मरब्रीडममस्यया = कामलज्जासंक्षेपम्पया, कामयुक्तया लज्जावत्या चेति भावः / अनया = दमयन्त्या, पदे पदे = वचने वचने स्थाने स्थाने वा, मौनमयाऽन्तरीपिणि = मौनरूपद्वीपयुक्ता, मारघसारसारणी = मधुसारस्वल्पनदी, प्रवर्तिता = प्रवाहिता / चित्रगतस्य तवाने एवं मधुवपिणी वागुक्तेति भावः / / 155 / /