________________ नवमः सर्गः .. 387 (10 त० ), तृणेढि = "तृह ( हिंसि) हिंसायाम्" धातुसे लट् / “रुधादिभ्यः श्नम्" इससे श्नम् / "तृणह इम्" इससे इम् आगम। इस पद्यमें विशेषसे सामान्यका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 152 // 'सुराऽपराषस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि / गिराऽपि बक्यन्ति मखेषु तर्पणादिदं न देवा मुखलज्जयेव ते // 153 // अन्वयः-(हे नाथ | ) तव स्वयंवरायां मयि अनुकम्प्रता, अयं कियान् सुराऽपराधः, वा मखेषु तर्पणात् देवा: ते मुखलज्जया एव इदं गिरा अपि न वक्ष्यन्ति // 153 // व्याख्या-(हे नाथ ! ) तव = भवतः, स्वयंवरायां = पतिवरायां, मयि = त्वत्प्रियायाम् अनुकम्प्रता = अनुकम्पित्वम्, अयम् = अनुकम्पाऽतिशयः, कियान् = किंपरिमाणः, सुराऽपराधः = इन्द्राऽऽदिदेवाऽपराधः सुरप्रेषितस्थाऽपि तव मया वृतत्वात्ते कोऽपराध इति भावः / वा = अथ वा, वादितोष. न्यायेन अपराधकर्तृत्वेऽपि इति भावः / मखेषु = यज्ञेषु, तर्पणात् = प्रीणनात्, देवाः = इन्द्रादयः, ते = तव, मुखलज्जया एव = सम्मुखत्रपया एव, साम्मुख्ये दाक्षिण्येन एवेति भावः / इदम् = अपराधकर्तृत्वं, गिरा अपि = वचनेन अपि, न वक्ष्यन्ति = न कथयिष्यन्ति, अपि शब्दान्मनसाऽपि न स्मरिष्यन्तीति भावः // 153 // ___ अनुवादः-( हे नाथ ! ) स्वयम् वरण करनेवाली मुझमें आपकी दयालुता, यह देवताओंके विषयमें कितना अपराध है ? अथ वा अपराध माननेपर भी यज्ञोंमें देवताओंको सन्तुष्ट करनेसे वे देवता ( इन्द्र आदि ) आपके सम्मुख दाक्षिण्यसे ही आपके अपराधको वचनसे भी नहीं कहेंगे / / 153 // ___टिप्पणी-स्वयंवरायाम् = स्वयमेव वृणोतीति . स्वयंवरा, तस्याम् स्वयं + वृज + अच्+टाप्+ङि। अनुकम्प्रता = अनुम्पनशीलः अनुकम्प्रः "नमिकम्पिस्म्यजसकहिंसदीपो रः" इस सूत्रसे ताच्छील्यमें रप्रत्यय / अनु + कपि+र+सु / अनुकम्प्रस्य भावः, अनुकम्प्र+तल + टाप् +सु / सुराऽप राधः = सुरेषु अपराधः ( स० त० ) / मुखलज्जया - मुखे ( साम्मुख्ये) लज्जा तया ( स० त० ) / वक्ष्यन्ति = वच् + लट+झि / "अपि" शब्दके पाठसे इन्द्र आदि देवता आपके अपराधका मनसे भी स्मरण नहीं करेंगे, यह भाव है / / 153 // वजन्तु ते तेऽपि वरं स्वयंवरं, प्रसाद तानेव मया वरिष्यसे / न सर्वथा तानपि न स्पृशेड्या न तेऽपि तावन्मदनस्त्वमेव वा // 154 / /