________________ 382 नैषधीयचरितं महाकाव्यम् व्याख्या-( हे प्रिय ! ) प्रसीद = अनुगृहाण, स्वशरान् = निजबाणान्, मनोभुवे = कामाय, यच्छ = देहि / सः = कामः, धुतकौसुमाऽऽशुग: = त्यक्तकुसुमबाणः सन्, तैः = त्वच्छरैः, मां = त्वद्वियोगिनीं, * हन्तु = व्यापादयतु, तस्योपयोगमाह-त्वदेकचित्तेति / अहं, त्वदेकचित्ता % भवदेकमानसा सती, असून् = प्राणान्, विमुञ्चती = त्यजन्ती. अत एव, त्वम् एव भूत्वा = भवत्स्वरूपा भुत्वा, तं = मनोमुवं, कामम् / तृणवत् = तृणतुल्य, जयामि = जेष्यामि // 147 / __अनुवाद:--(हे प्रिय ! ) आप अनुग्रह करें, अपने बाणोंको कामदेवको दे दें। वह ( कामदेव ) पुष्परूप बाणों को छोड़कर आपके बाणोंसे मुझे मार डाले / मैं एकमात्र आपमें चित्तको रखकर प्राणोंको छोड़ती हुई दुसरे जन्म में आपके स्वरूपका लाभ कर कामदेवको तृणके समान जीत जाऊँगी // 147 // टिप्पणी---प्रसीद प्र+सद् + लोट् + सिप्। स्वशरान् = स्वस्य शराः, तान् (प० त० ) / मनोभुवे = मनसि भवतीति मनोभः, तस्मै, मनस+भ+ क्विप् ( उपपद०)+डे / यच्छ = दाण् ( यच्छ ) + लोट् + सिप् / धुतकौसुमाऽऽशुगः = कुसुमानाम् इमे कौसुमाः ( कुसुम+अण् + जस् ) / धुता: कोसुमा आशुगा येन सः ( बहु० ) / हन्तु = हन् + लोट् + तिप / त्वदेकचिता त्वम् एव एकः त्वदेकः ( क. धा० ) / त्वदेकस्मिन् चित्तं यस्याः सा ( व्यधि० बहु० ) / विमुञ्चती = विमुञ्चतीति, वि+मुच् + लट् ( शतृ) + ङीप् + सु / “आच्छीनद्योर्नुम्" इससे विकल्प होनेसे नुम्का अभाव / त्वम् एव भूत्वा = मनुष्य अन्तकाल में जिस मावका स्मरण कर शरीर छोड़ता है, दूसरे जन्ममें उसी भावको प्राप्त होता है ___ "यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवेति कौन्तेय ! सदा तद्भावभावितः // " (गीता 8-6) भगवान् श्रीकृष्णकी इस उक्तिके अनुसार यह कथन है। तृणवत्-तृणेन तुल्यम्, तृण+वति / जयामि - जि+लट् +मिए / “आशंसायां भूतवच्च" इस सूत्रसे आशंसामें वर्तमानके समान प्रत्यय // 147 // श्रुतिः सुराणां गुणगायनी यदि, त्ववनिमग्नस्य जनस्य किं ततः ? / स्तवे रवेरप्सु कृताऽऽप्लवैः कृते न मुद्वती जातु भवेत्कुमुद्रती // 148 // अन्वयः-( हे प्रिय ! ) श्रुतिः सुराणां गुणगायनी यदि, त्वदधिमग्नस्य