________________ नवमः सर्गः 381 .अन्वयः-( हे प्रिय ! ) विधुः निजांऽशुनिर्दग्धमदङ्गभस्मभिः लाञ्छनोन्मृजां मुधा वाञ्छति / वधूवधेन पुनः कलङ्कितः (सन्। तावता अपि त्वदास्यतां यास्यति किम् ? // 146 // व्याख्या-(हे प्रिय ! ) विधुः = चन्द्रः, निजांऽशुनिर्दग्धमदङ्गभस्मभिः = स्वकिरणज्वलितमच्छरीरभसितः, लाञ्छनोन्मृजां = स्वकलङ्कपरिमार्जनं, मुधा = वृथैव, वाञ्छति इच्छति, त्वन्मुखसाम्याऽर्थमिति शेषः / तथा हि -- वधवधेनमद्वधपातकेन, पुन: = भूयः, कलङ्कितः = सजातकलङ्कः सन्, तावता अपि = मदङ्गभस्मना उन्मार्जनेन अपि, त्वदास्यतां = भवन्मुखतां, भवन्मुखतुल्यतामिति भावः / यास्यति किम्-प्राप्स्यति किम् ? नो यास्यत्येवेति भावः / / 146 // ___ अनुवादः- ( हे प्रिय ! ) चन्द्र अपनी किरणोंसे जले हुए मेरे शरीरके भस्मोंसे अपने कलङ्कका मार्जन करनेकी व्यर्थ इच्छा करता है। मेरे वधके पातकसे कलङ्कित होता हुआ चन्द्र वैसे मार्जनसे भी आपके मुखकी तुल्यताको कैसे प्राप्त करेगा ? // 146 // . टिप्पणी-निजांऽशुनिर्दग्धमदङ्गभस्मभिः निजांश्च ते अशव: (क० धा०), मम अङ्गम् (प० त० ), निजांऽशुभिः निर्दग्धम् ( तृ० त० ), निजांऽगुनिर्दग्धं च तत् मदङ्गम् ( क० धा० ), तस्य भस्मानि, तैः (10 त० ), करण. में तृतीया / लाञ्छनोन्मृजाम् = उन्मार्जनम् उन्मृजा, उद् + मृज् + अ + टाप् / "षिद्धिदादिभ्योऽङ्" इससे अङ्। लाञ्छनस्य उन्मृजा, ताम् ( प० त० ) / वधूवधेन-बध्वा वधः, तेन (10 त० ) / कलङ्कितः कलङ्कः संजातः अस्य सः, कलङ्क + इतच् +सु / त्वदास्यतां = तव आस्यं ( 10 त० ), तस्य भावः तत्ता, ताम्, त्वदास्य+तल् ( टाप् )+ अम् / यास्यति = या+लूट + तिप् / इस पद्यमें नलके मुखकी समता पानेके लिए दमयन्तीके शरीरके भस्मसे चन्द्रके अपने कलङ्कका मार्जन करनेसे स्त्रीवधके कलङ्ककी प्राप्तिके कथनसे अनर्थकी उत्पत्ति होनेसे विषम अलङ्कार है // 146 // प्रसोद, यच्छ स्वशरान्मनोभुवे, स हन्तु मां तैधुतकोसुमाऽऽशुगः / त्वदेकचित्ताऽहमसून्विमुञ्चतो त्वमेव भूत्वा तृणवज्जयामि तम् // 147 / अन्वयः - ( हे प्रिय ! ) प्रसीद, स्वशरान् मनोभुवे यच्छ, स धुतकौसुमार शुगः ( सन् ) तैः मां हन्तु / अहं त्वदेकचित्ता ( सती ) असून विमुञ्चती त्वम् एव भूत्वा तं तृणवत् जयामि // 147 //