________________ नैषधीयचरितं महाकाव्यम् धा धातु से लुङ्+तिप् / “मङि लुङ्” इससे लुङ् और "न माङ्योगे” इससे अटका अभाव // 134 // उदासितेनेव मयेदमुद्यसे भिया न तेभ्यः स्मरतानवान्न वा। हितं यदि स्यान्मदसुव्ययेन ते तदा तव प्रेमणि शुद्धिलब्धये // 135 // अन्वयः-(हे प्रिये ! ) उदासितेन इव मया इदम् उद्यसे, तेभ्यो भिया न वा स्मरतानवात् न / मदसुव्ययेन ते हितं स्यात् यदि, तदा तव प्रेमणि शुद्धिलब्धये // 135 // व्याख्या - ( है प्रिये ! ) उदासितेन इव = उदासीनेन इव, मध्यस्थेन इवेति भावः, मया, इदं = पूर्वोक्तं वचनम् “अमी० 9-134" इत्यादिकम्, उद्यसे = अभिधीयसे, तेभ्यः=देवेभ्यः, भिया न=भीत्या न, उद्यसे इति शेषः / वा=अथ वा, स्मरतानवात् = कामकृतकार्यात्, "स्वकिङ्करम् 9-134" इत्यादि रूपं, न उद्यसे / तस्माद्विमृश्य कुर्विति भावः / स्वमतमाह-हितमिति / मदसुव्ययेन = मत्प्राणसमर्पणेन, ते-तव, हितम् = उपकार:, स्यात् यदि = भवेत चेत्, तदा = तर्हि, मत्प्राणसमर्पणमिति शेषः / तव = भवत्याः, प्रेमणि = अनुरागे विषये, शुद्धिलब्धये = आनण्यलाभाय, भवतीति शेषः // 135 // ___ अनुवादः--( हे प्रिये ! ) उदासीन (तटस्थ) की तरह मैं तुम्हें यह कह रहा हैं, देवताओं के भयसे वा कामदेवसे की गई कृशतासे नहीं। मेरे प्राणोंके समर्पणसे तुम्हारा हित होगा तो वह तुम्हारे प्रेममें अनणताके लाभके लिए होगा / / 135 // टिप्पणी--उदासितेन = उदासनम् उदासितं, तेन, उद् + आस+क्त ( भावमें )+टा / इस व्युत्पत्तिमें उदासीनतासे यह अर्थ है / अथ वा -- उद् + आस+क्त ( कर्ता में ) + टा। इस व्युत्पत्ति में उदासीन ( तटस्थ ) यह अर्थ है / उद्यसे = वद+ लट् ( कर्ममें ) + थास् / “वचिस्वपियजादीनां किति" इससे सम्प्रसारण / स्मरतानवात् = तनोर्भावः तानवम्, तनु शब्दसे "हायनाऽन्तयुवादिभ्योऽण्" इस सूत्रसे अण् प्रत्यय / स्मरेण तानवं, तस्मात् ( तृ० त० ) / मदसुव्ययेन = मम असवः / ष० त० ), तेषां व्ययः, तेन (ष० त०)। शुद्धि लब्धये = शुद्धेर्लब्धिः , तस्यै ( ष० त० / / तुम्हारे अनुरागके उपकारका प्राणसमर्पण ही प्रत्युपकार है, यह भाव है / / 135 / / इतीरिवर्नैषधसूनृ ताऽमृतविदर्भजन्मा भृशमुल्ललास सा / ऋतोरधिश्रीः शिशिराऽनुजन्मनः पिकस्वरर्दूरविकस्वरैयया // 136 //