________________ नवमः सर्गः 373 अन्वयः--इति ईरितः नैषधसूनृताऽमृतः सा विदर्भजन्मा शिशिराऽनुजन्मनः ऋतो: अधिश्री: दूरविकस्वरः पिकस्वरः यथा भृशम् उल्ललास / / 136 // व्याख्या-इति = इत्थम्, ईरितः = कथितः, नैषधसूनताऽमृतैः = नलसत्यप्रियवाक्यपीयूषैः, सा = प्रसिद्धा, विदर्भ जन्मा = वैदर्भी, दमयन्ती, शिशिराऽनुजन्मनः = शिशिराऽनुजातस्य, ऋतोः = वसन्ताः , अधिश्रीः = अधिकसम्पत्तिः, दरविकस्वरैः = अतिविकासिभिः, पिकस्वरः = कोकिलरवः, यथा - इव, भृशम् = अत्यर्थम्, उल्ललास = उल्लासं प्राप, जहर्षति भावः // 136 // ____ अनुवाद:-इस तरह कहे गये नलके सत्य और प्रियवचनरूप अमृतोंसे वे दमयन्ती, शिशिरके अनन्तर होनेवाले वसन्त ऋतुकी अधिक शोभा दूरतक फैलनेवाले कोकिलके शब्दोंसे जैसे अधिक उल्लासको प्राप्त होती है वैसे ही अतिशय उल्लासको प्राप्त हुई / / 136 / / टिप्पणी-ईरितः = ईर+क्त+ भिस् / नैषधसूनृताऽमृतः = सूनृतानि एव अमृतानि ( रूपक० ), नैषधस्य सूनताऽमृतानि, तैः (ष० त०) / विदर्भजन्मा= विदर्भेषु जन्म यस्याः सा ( व्यधि० बहु० ) / शिशिराऽनुजन्मनः = अनु जन्म यस्य सः ( बहु० ), शिशिरस्य अनुजन्मा, तस्य ( ष० त.)। अधिश्री: = अधिका चाऽसौ श्रीः ( क० धा० ) दूरविकस्वरः = दूरं विकस्वराः (सुप्सुपा०)। पिकस्वरैः = पिकस्य स्वराः, तः (ष० त०)। उल्ललास = उद्+लस+लिट् + तिप् ( णल ) / कोकिलके स्वरकी समतासे नलके वचनोंकी कामोद्दीपकता व्यङ्गय होती है / इस पद्यमें उपमा अलङ्कार है // 136 // नलं तदावेत्य तमाशये निजे घृणां विगानं च मुमोच भीमजा / जुगुप्समाना हि मनो द्रुतं तदा सतोषिया देवतदूतषावि सा / / 137 // अन्वयः-तदा दैवतदूतधावि द्रुतं मनः सतीधिया जुगुप्समाना सा भीमजा तदा तं नलम् अवेत्य निजे आशये घृणां विगानं च मुमोच / / 137 // व्याख्या--तदा = तस्मिन् काले, नलस्य स्वरूपगोपनसमय इति भावः / दैवतदूतधावि = देवदुतधावनशीलं, द्रुतं = गतं च, मनः = चित्तं, सतीधिया = पातिव्रत्याऽभिमानेन, जुगुप्समाना = निन्दन्ती, सा = प्रसिद्धा, भीमजा - भैमी, दमयन्ती / तदा = तस्मिन् काले, नलस्य स्वरूपकथनसमय इति भावः / तं = देवदतं, नलं = वैरसेनिम्, अवेत्य = ज्ञात्वा, निजे = स्वकीये, आशये = मनसि, घणां = परपुरुष इति जुगुप्सां, विगानं च = आत्मनिन्दां च, मुमोच = तत्याज // 137 //