________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-उन्मदिष्णुता = उन्मदिष्णोर्भावः, उन्मदिष्णु + तल् + टाप् + सु। “अलन्" इत्यादि सूत्रसे इष्णुच्, उद् + मद+ इष्णुच् / मे = "हितयोगे च" इससे हितके योगमें चतुर्थी / अयोगजां = न योगः ( नन० ) / अयोगाज्जाता, ताम्, अयोग+जन् + ड, उपपद० + टाप् +अम् / अन्वभवम् = अनु+भू+लङ्+मिप् / अद्यतन भूतकालके लिए % "अन्वभूवम्" यह प्रयोग इष्ट है / अज्ञानवशात् = न ज्ञानम् ( न०), तस्य वशः, तस्मात् (ष० त०)। दोषलाघवम् = दोषस्य लाघवम् / ष० त० ) / यहाँपर "पूरणगुण." इत्यादि सूत्रसे गुणवाचक शब्दका षष्ठीसमासनिषेध अनित्य होनेसे "अर्थगौरवम्", "बुद्धिमान्द्यम्" इत्यादिके समान समास हुआ है। इस पद्यमें उपमा अलङ्कार है // 132 // तवेत्ययोगस्मरपावकोऽपि मे कदधनात्यर्थतयाऽगमद्दयाम् / प्रकाशमुन्माष यदद्य कारयन्मयाऽऽत्मनो मामनुकम्पते स्म सः // 133 / / अन्वयः-( हे प्रिये ! ) इति तव कदर्थनाऽत्यर्थतया मे अयोगस्मरपावकः अपि दयाम् अगमत् / यत् अद्य स उन्माद्य मया आत्मनः प्रकाशं कारयन् माम् अनुकम्पते स्म // 133 / / ___ व्याख्या-(हे प्रिये ! ) इति = इत्थं, तव = भवत्याः, कदर्थनाऽत्यर्थतया = पीडाबाहुल्येन हेतुना, मे = मम, अयोगस्मरपावकः अपि = वियोगकामाऽग्निः यपि, दयां = कृपाम्, अगमत् = प्राप्तवान्, दयालुरभूदिति भावः / यत् = यस्मात्, अद्य = अस्मिन् दिने, सः - कामाऽग्निः (प्रयोजककर्ता ), उन्माद्य = माम उन्मत्तं कृत्वा, मया - प्रयोज्येन, आत्मनः = स्वस्य, मत्स्वरूपस्यति भावः / प्रकाशं % प्रकाशनं, कारयन् - कतुं प्रेरयन्, माम्, अनुकम्पते स्म, मम दयते स्मेति भावः / किं बहुना उन्मादप्रसादादुभावप्यावां कृताऽथौं स्व इति तात्पर्यम् / / 133 // अनुवादः -( हे प्रिये ! ) इस प्रकार तुम्हारी पीडाकी अधिकतासे मेरे वियोगमें कामरूप अग्नि भी दयालु हो गया / जिससे कि उसने मुझे उन्मत्त बनाकर मुझसे मेरे स्वरूपका प्रकाशन कराकर मुझे अनुग्रहीत किया / / 133 // टिप्पणी-कदर्थनाऽत्यर्थतया = कदर्थनाया अत्यर्थता, तया (ष० त० ) / अयोगस्मरपावकः = न योगः ( नम्० ) / स्मर एव पावकः ( रूपक० ) / अयोगे स्मरपावकः ( स० त० ) / अगमत् = गम् + लुङ+ तिप् / उन्माद्य = उद्+मद् + णिच् + क्त्वा ( ल्यप् ) / कारयन्=कृ+णिच् + लट् (शतृ) + सु /