________________ नैषधीयचरितं महाकाव्यम् ___ अन्वयः-इति ईरिणा नलं विदर्भजाम् अपि आपृच्छय प्रयातेन खगेन सान्त्वितः स नृपः चित्तेन हरित्पतीन् प्रणम्य मृदुः ( सन् ) दमस्य भगिनीं बभाषे॥ 130 // . व्याख्या - इति = इत्थम्, ईरिणा = ब्रुवाणेन, नलं = नैषधं. विदर्भजाम् अपि = भैमीम् अपि, आपृच्छय = आमन्त्र्य, प्रयातेन = प्रयाणप्रवृत्तेन, खगेन = पक्षिणा राजहंसेन, सान्त्वितः = कृतसान्त्वनः, सः = पूर्वोक्तः, नृपः = राजा नल:, चित्तेन = मनसा, हरित्पतीन = दिक्पालान् इन्द्रादीन्, प्रणम्य नमस्कृत्य, मृदुः= आर्द्रचित्तः सन्, दमस्य = भीमभूपपुत्रस्य, भगिनी = स्वसारं, दमयन्तीमिति भावः, बभाषे = भाषितवान् / / 130 // अनुवादः-ऐसा कहकर नल और दमयन्तीको भी पूछकर जानेके लिए तत्पर हंससे सान्त्वना दिये गये नलने मनसे इन्द्र आदि दिवालोंको प्रणाम कर कोमलचित्त होकर दमयन्तोसे कहा // 130 / / टिप्पणी-ईरिणा = ईरयतीति ईरी, तेन, ईर+णिच् + णिनिः+टा / विदर्भजां = विदर्भेषु जाता, ताम्, विदर्भ + जन् + ड: ( उपपद० )+टाप् + अम् / आपृच्छय = आङ्+प्रच्छ+क्त्वा ( ल्यप् ) / प्रयातेन = प्र + या + क्तः+टा / "आदिकर्मणि क्तः कर्तरि च" इस सूत्रसे क्त प्रत्यय / हरित्पतीन् हरितां पतयः, तान (10 त०)। प्रणम्य = प्र + नम् + क्त्वा ( ल्यप् ) / बभाषे = भाष + लिट् + त ( एश् ) // 130 // ददेऽपि तुभ्यं कियती: कदर्थनाः सुरेषु रागप्रसवाऽवकेशिनीः / अदम्भदूत्येन भजन्तु वा दयां दिशन्तु वा दण्डममी ममाऽऽगसा॥ 131 // ___ अन्वयः-(हे प्रिये ! ) सुरेषु रागप्रसवाऽवकेशिनी: कियतीः कदर्थनाः तुभ्यं ददे अपि / अमी अदम्भदूत्येन दयां वा भजन्तु, आगसा मन दण्डं वा दिशन्तु // 131 // व्याख्या-(हे प्रिये ! ) सुरेषु= इन्द्रादिदेवेषु विषये,रागप्रसवाऽवकेशिनी:= अनुरागोत्पत्तिवन्ध्याः, प्रणयजननाऽसमर्था इति भावः / कियती:-किंपरिमाणाः, इयत्तारहिता इति भावः / कदर्थना: = पीडाः, तुभ्यं = भवत्यै, केवलं प्रियार्हार्य इति भावः / ददे अपि, ददामि अपि, अतिगहितमांचरामीति भावः / अमी = देवा:, अदम्भदूत्येन = अकपटदूतकर्मणा, दयां वा भजन्तु = करुणां वा कुर्वन्तु, आगसा = अपराधेन हेतुना, आत्मप्रकाशनरूपेणेति भावः / दण्डं वा दिशन्तु = शासनं वा कुर्वन्तु, अतः परं भैमी न कदर्शयामीति भावः / / 131 / /