________________ नवमः सर्गः . 367 प्रयोग व्याकरणसम्मत है / विहाता= वि+हा+लुट + तिप् / अद्यतन कालके लिए भविष्यदर्थ में लटका ही प्रयोग साधु है / / 128 // सुरेषु पश्यन्निजसाऽपराधतामियत्प्रयस्याऽपि तदर्थसिद्धये / / न कूटसाक्षीभवनोचितो भवान्सतां हि चेतःशुचिताऽऽत्मसाक्षिका / / 129 // / अन्वयः --(हे नल ! ) भवान् तदर्थसिद्धये इयत् प्रयस्य अपि सुरेषु निजसाऽपराधतां पश्यन् ( सन् ) कूटसाक्षीभवनोचितो न, हि सतां चेतःशुचिता आत्मसाक्षिका // 129 // व्याख्या-( हे नल ! ) भवान्, तदर्थसिद्धये=देवप्रयोजनसाफल्याय, इयत्= एतावत्, प्रयस्य अपि = प्रयासं कृत्वा अपि, सुरेषु = देवेषु विषये, निजसाऽपराधतां-स्वाऽपराधं, पश्यन् =तर्कयन् सन, कूटसाक्षीभवनोचितो न-कपटसाक्षीभावयोग्यो न, निरपराधे आत्मनि अपराधचिन्तनमेव कुटसाक्षित्वं, तत्तेऽनुचितमिति भावः। उक्तमर्थमर्थान्तरन्यासेन द्रढयति-सतामिति / हि = यस्मात् कारणात, सतां = शिष्टानां, चेतःशुचिता = चित्तशुद्धिः, आत्मसाक्षिका = स्वप्रमाणिका, सता चित्तशुद्धिः न परप्रमाणिका भवतीति भावः // 122 // अनुवादः-(हे नल ! ) आपको देवकार्यकी सिद्धि के लिए इतना प्रयास करके भी देवताओंमे अपने अपराधको देखते हुए कूटसाक्षी होना उचित नहीं है, क्योंकि सज्जनोंकी चित्तशुद्धि में अपना ही प्रामाण्य होता है / / 129 // टिप्पणो--तदर्थसिद्धये = तेषाम् अर्थः (प० त० ), तस्य सिद्धिः, तस्य (ष० त० ) / प्रयस्य = प्र.+यस् + क्त्वा ( ल्यप् ) / निजसाऽपराधताम् = अपराधेन सहितः साऽपराधः ( तुल्ययोग बहु० ) / तस्य भावः, तत्ता साऽपराध+तल+टाप् / निजा चाऽसौ साअराधता, ताम् ( क० धा० ), कूटसाक्षीभवनोचितः = कटश्चाऽसौ साक्षी ( क० धा० ) / अक्टसाक्षी कूटसाक्षी यथा संपद्यते तथा भवनं, कूटसाक्षीभवनम् कूट साक्षि + वि + भवन + सु / तस्मिन् उचितः ( स० त० ) / चेतःशुचिता = शुचेर्भावः शुचिता, शुचि + तल टाप / चेतसः शुचिता ( ष० त० ) / आत्मसाक्षिका = आत्मा साक्षी यस्यां सा ( बहु० ) / "शेषाद्विभाषा" इस सूत्रसे समासाऽन्त का प्रत्यय / स्वतःप्रमाणसिद्ध विषयमें विचार करने की आवश्यकता क्या है ? यह भाव है / इस पद्य में अर्थान्तरन्यास अलङ्कार है // 129 / / इतोरिणाऽऽपृच्छय नलं विदर्भजामपि प्रयातेन खगेन सान्वितः / मृदुर्बभाषे भगिनों दमस्य स प्रणम्य चित्तेन हरित्पतीन्नपः // 130 //