________________ नैषधीयचरितं महाकाव्यम् . .. अन्तर्यामी साक्षी है यह भाव है। इस पद्य में निरुक्त-नामक काव्यका लक्षण है॥ 124 // स्फुटत्यदः किं हृदयं त्रपाभराद्यदस्य शुद्धिविबुधैविबुध्यताम् / विदन्तु ते तत्त्वमिदं तु दन्तुरं, जनाऽऽनने क: करमर्पयिष्यति ? // 125 // अन्वयः-अदो हृदयं त्रपाभरात् स्फटति किम् ? यत् अस्य शुद्धिः विबुधैः विबुध्यताम् / ते इदं दन्तुरं तत्त्वं तु विदन्तु, जनाऽनने कः करम् अर्पयिष्यति ? // 12 // व्याख्या-अदः = एतत्, हृदयं = हृत, पाभरात् = लज्जाऽतिभारात् / स्फटति किं - स्फटियति किम, विदीर्ण भविष्यति किमिति भावः। यत् = यस्मात् स्फुटनात्, अस्य = हृदयस्य, शुद्धिः = पवित्रता प्रायश्चित्तम् / विबुधः = देवः, विबुध्यतां = ज्ञायताम् / अतः स्फुटनमाशास्यमिति भावः / ते = विबुधाः, इदम् = एतत्, दन्तुरम् = अतिविषमं, तत्त्वं तु = हृदयशुद्धि, तु विदन्तु = जानन्तु / लोकाजानन्तु मा जानन्तु वा, अत्र लौकिकमाभाणकमाह-जनाऽऽनन्त इति / जनाऽऽनने = लोकमुखे, कः = जनः, करं = हस्तम, अर्पयिष्यति = समर्पयिष्यति, मा वादीरिति वाचं निरोत्स्यतीति भावः / / 125 // ___अनुवादः-यह मेरा हृदय लज्जाके अति भारसे विदीर्ण होगा क्या ? जिससे कि इसकी पवित्रता देवता लोग जान लें। वे लोग इस विषम तत्त्व (हृदयशृद्धि)को तो जानें / परन्तु अन्य लोगोंके मुखको कौन रोकेगा? // 125 // टिप्पणी-पाभरात् = पाया भरः, तस्मात् (10 त० ) / स्फुटति = स्फुट+ लट् + तिप्, / "आशंसायां भूतवच्च" इस मूत्र में चकारके पाठसे भविष्यत्कालके अर्थमें वर्तमान कालका प्रयोग हुआ है। विबुध्यतां = वि+बुध+ लोट् ( कर्ममें ) + त / विदन्तु = विद+ लोट् + झिः / जनाऽऽनने = जनस्य आननं, नस्मिन् ( प० त० ) / अर्पयिष्यति = ऋ+णिच् + लट + तिप् / मेरी हृदयशुद्धिको किसी प्रकार देवताओंको प्रतीत करानेपर भी जनताको प्रतीति कराना दुष्कर है, यह भाव है / / 125 / / . मम श्रमश्चेतनयाऽनया फलो बलीयसाऽलोपि च सैव वेघसा। न वस्तु देवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकतु मीश्वरः / / 126 // अन्वयः- मम श्रमः अनया चेतनया फली ( स्यात् ), बलीयसा वेधसा सा एव आलोपि च / तथा हि- देवस्वरसात् विनश्वरं वस्तु सुरेश्वरः अपि प्रतिकर्तुम् ईश्वरो न // 126 //