________________ 360 नैषधीयचरितं महाकाव्यम् शुश्रूषयितुं प्रसीद / यत् चान्द्रस्य करोत्करस्य निशा इव नलस्य मम त्वम् एका जीवितम् असि // 120 // याख्या- हे प्रिये ! ) गिरा = वचनेन, अनुकम्पस्व = अनुकम्पां कुरु, त्वमिति शेषः, एवं त्रिष्वपि वाक्येषु। चुम्बनः = वक्त्रसंयोगः, दयस्व = दयां कुरु, ममेति शेषः / मया = प्रयोज्येन, कुची = स्वस्तनो, शुश्रूषयितुं = सेवयितुं, प्रसीद = प्रसन्ना भव / यत् = यस्मात्कारणात्, चान्द्रस्य = चन्द्रसम्बन्धिनः, करोत्करस्य = किरणसमूहस्य, निशा इव = रात्रिः इव, नलस्य = नैषधस्य, मम, त्वम्, एका = एकमात्रं, जीवितं -जीवनम्, असि = विद्यसे / चन्द्रस्य दिवाऽपि जीवनसंभवात् करग्रहणं, तस्य निशंक शरणत्वादिति द्रष्टव्यम् / 120 // अनुवादः-( हे प्रिये ! ) वचनसे अनुकम्पा करो। चुम्बनोंसे दया करो। मुझसे अपने स्तनों की शुश्रृपा कराने के लिए अनुग्रह करो। जैसे चन्द्रके किरणसमूहकी रात्रि जीवनस्वरूप है वैसे ही तुम भी मेरे जीवनस्वरूप हो / 120 / / टिप्पणी- अनुकम्पस्व = अनु+कपि++लोट् + थास् / दयस्व = दय + लोट् +थास् / शुश्रूषयितुं = श्रु + सन् +णिच् + तुमुन् / चान्द्रस्य = चन्द्रस्य अयं चन्द्रः, तस्य चन्द्र + अण् + इस् / करोत्करस्य = कराणाम् उत्करः, तस्य (10 त० ) / चन्द्रका दिनमें भी जीवन संभव है, परन्तु उनकी किरणका रात्रि में ही संभव होनेसे “कर" का ग्रहण किया है। इस पद्य में उपमा अलङ्कार है / / 120 // मुनिर्यथाऽऽमानमय प्रबोधवान् प्रकाशयन्तं स्वमसावबुध्यत / अपि प्रपन्नां प्रकृति विलोक्य तामवाप्तसंस्कारतयाऽसृजद् गिरः // 121 / / अन्वयः--अथ असौ मुनिः यथा प्रबोधवान् ( सन् ) आत्मानं स्वं प्रकाशयन्तम् अवुध्यत / ( अथ ) प्रपन्नां तां प्रकृति विलोक्य अपि अवाप्तसंस्कारतया मिरः असृजत् // 121 // व्याख्या-अथ = एवं भ्रान्त्यनन्तरम्, असी = नलः, मुनिर्यथा = मुनिरिव, प्रबोधवान्, = उत्पन्न तत्त्वज्ञानः सन्, आत्मानं = निजं, स्वं -स्वरूप, लरूपत्वमिति भावः / प्रकाणयन्तं = कथयन्तम्, अबुध्यत = ज्ञातवान् / अथ= अनन्नर, प्रपन्नां = प्राप्तां, तां = निजां, प्रकृति = स्वभाव, विलोक्य