________________ नवमः सर्गः 355 ( बहिः ) उरः = वक्षस्थलम्, एषि चेत् = प्राप्नोषि यदि, तत् = तर्हि, मम, हृदयं = चित्तं ( कर्तृ ), त्वन्मयसंपुटे = त्वत्स्वरूपपेटिकायां, प्रविश्य = प्रवेशं कृत्वा, स्मराऽऽणुगेभ्यः = कामबाणेभ्यः, न बिभेतु = न त्रस्यतु / त्वया रक्षितस्य मे कुतः कामाऽस्त्राद्भयमिति भावः / / 115 // अनुवादः --कामबाणको प्रतारण करनेकी विद्याका अध्ययन करनेवाली हे दमयन्ति ! तुम मेरे भीतर ( अन्तःकरणमें ) रहती हई बाहर उरःस्थलमें आओगी तो मेरा हृदय त्वद्रूप पेटिकामें प्रवेश कर कामदेवके बाणोंसे नहीं डरेगा / / 115 / / ___ टिप्पणी-अधीतपञ्चाऽऽशुगवाणवञ्चने = पञ्च आशुगाः ( बाणाः ) यस्य सः ( बहु० ) / तस्य वाणाः ( प० त० ), तेषां वञ्चनम् ( ष० त० ) / अधीतं पञ्चाऽऽशुगबाणवञ्चनं यया सा ( बहु० ), तत्सम्बुद्धी। मदन्तः = मम अन्तः (ष० त० ) / एषि = इण+लट् + सिप् / त्वन्मयसंपुटे = त्वमेव त्वन्मयं, युष्मद् ( त्वद् ) मयट. ( स्वरूप अर्थ में ) / त्वन्मयं चाऽसौ संपुटः, तस्मिन् (क० धा० ) / स्मराऽऽशुगेभ्यः = स्मरस्य आशुगाः ( प० त० ), तेभ्यः, "भीत्राऽर्थानां भयहेतुः" इससे अपादानसंज्ञा होकर पञ्चमी। चिरकालतक अन्तकरणमें रही हुई तुम मेरे वक्षःस्थलमें आओगी तो तुम्हारे आलिङ्गनसे मेरा कामज्वर शान्त होगा, यह अभिप्राय है / / 115 // परिष्वजस्वाऽनवकाशवाणता स्मरस्य लग्ने हृदयद्वयेऽस्तु नौ / दृढा मम त्वत्कुचयोः कठोरयोख्रस्तटीयं परिचारिकोचिता // 116 // अन्वयः-( हे प्रिये ! ) परिष्वजस्व / लग्ने नौ हृदयद्वये स्मरस्य अनवकाशबाणता अस्तु / दृढा मम इयम् उरस्तटी कठोरयोः त्वत्कुचयोः परिचारिका उचिता // 11 // व्याख्या--(हे प्रिये ! ) परिष्वजस्व = आलिङ्ग। तथा सति लग्ने= मिथो मिलिते, नौ = आवयोः, हृदयद्वये = उरोद्वितये, स्मरस्य = कामदेवस्य अनवकाशवाणता = निरवकाशशरता, अस्तु = भवतु / इत्थमालिङ्गन स्मरशरप्रवेशाऽनवकाशकारकमिति भावः / किञ्च दृढा = कठोरा, मम, इयम् = एषा, उरस्तटी = वक्षस्तटी, कठोरयो: = कठिनयोः, त्वत्कुचयोः = भवत्याः पयोधरयोः, परिचारिका - सेवाकारिका, उचिता = युक्ता, तुल्यगुणयोः सम्बन्धो युक्त इति भावः // 116 / /