________________ नवमः सर्गः 353 सम् + आप् + णिच् + लोट् + सिप् / कौमुदीमुदः कोमुद्या मुदः, ताः (प० त०) विश्राणय = वि+श्रण+णिच् + लोट+सिप् / “विश्राणनं वितरणं स्पर्शन प्रतिपादनम् / " इत्यमरः / खञ्जनद्वयी = खञ्जनयोयी (ष० त०)। इतः = "अस्मिन्, इदम् + तसिः, आद्यादिभ्य उपसंख्यानम्" इससे सार्वविभक्तिक तसि / / विकासि = वि+कस+घिनुण + सु / "विकासी तु विकस्वरः / " इत्यमरः / रोदन छोड़कर प्रसन्न होकर मन्दहास्यपूर्वक कटाक्षप्रदर्शन कर कुछ बोलों, यह भाव है। वर्षाके बीतनेपर शरत् ऋतुमें चन्द्रिकाका प्रादुर्भाव, खजन पक्षीकी क्रोडा और कमलविकास भी हो जाता है / इस पद्यमें रूपक अलङ्कार है // 112 // सुधारसोलनकेलिमक्षरलजा सृजाऽन्तर्मम कर्णकूपयोः / दृशौ मदीये मदिराऽमि ! कारय स्मितश्रिया पायसपारणाविधिम् // 11 // अन्वयः-हे मदिराक्षि ! अक्षरस्रजां मम कर्णकूपयोः अन्तः सुधारसोद्वेलनकेलि सज, मदीये दशौ स्मितश्रिया पायसपारणाविधि कारय / / 113 // ___व्याख्या-हे मदिराक्षि = हे मदकरनयने !. अक्षरस्रजा = वर्णाऽऽवल्या, मम, कर्णकपयोः = श्रोत्रजलाशययोः, अन्तः = अभ्यन्तरे, सुधारसस्योद्वेलनकेलिम् = अमृतरसाऽसीमक्रीडां, सृज = रचय, आलपेति भावः / मदीये = मामकीने, दशौ = नेत्रे, स्मितश्रिया = मन्दहासशोभया, पायसपारणाविधि = . परमान्नव्रताऽन्तभोजनविधानं, कारय = कर्तुं प्रेरय // 113 // .- अनुवादः-हे मद उत्पन्न करनेवाले नेत्रोंवाली ! वर्गों की पङ्क्तिसे मेरे कर्ण रूप कूपोंके भीतर असीम क्रीडा करो, अर्थात् वोलो। मेरे नेत्रोंको मन्दहास्यकी शोभासे पायस (खीर) के प्रताऽन्तभोजनका विधान कराओ / / 113 // . टिप्पणी-मदिराऽक्षि = मदिरे इव अक्षिणी यस्याः सा मदिराक्षी, तत्सम्बुद्धी (बहु० )| अक्षरस्रजा- अक्षराणां सक्, तया (ष० त०)। कर्णकूपयोः = कणों कूपो इव कर्णकूपो, तयो ( उपमित० ) / सुधारसोद्वेलनके िल = सुधाया रसः (ष० त० ), उद्वेलना चाऽसौ केलि: (क० धा० ) / सुधा रसस्य उद्वेलनक्रीडा, ताम् (10 त०), सृज = सृज + लोट् + सिप् / दृशौ = "कारय" इस पदके योगमें "हृक्रोरन्यतरस्याम्" इससे कर्मसंज्ञा होकर द्वितीया / स्मितश्रिया = स्मितस्य श्रीः, तया (प० त० ) / पायसपारणाविधि = पारणाया विधिः ( ष० त० ) / पयसा संस्कृतं पायसम्, पयस् शब्दसे "संस्कृतम्" इस सूत्रसे अण् प्रत्यय, “परमान्नं तु पायसम्" इत्यमरः / पायसेन पारणाविधि: तम् ( तृ० त० ) / कारय = कृ+ णिच् + लोट् + सिप् // 113 // 23 न० न०