________________ 350 नैषधीयचरितं महाकाव्यम् मात्रस्वीकारे अपि, कः श्रमः = कः प्रयासः ?, याचताम् = अथिनां, कल्पलता= कल्पवृक्षवल्ली, असि = त्वं, क्व = कुत्र?, अर्थिनामभिलाषपूरयित्री त्वं क्वेति भावः / मां प्रति = मद्र पं याचकं प्रति, दृष्टिदाने अपि अवलोकनमात्रे अपि, तव = भवत्याः, बद्धमुष्टिता = कृपणता, क्व = कुत्र?, उभयोर्महदन्तरमिति भावः // 109 // ____ अनुवादः- (हे भैमि ! ) प्रभुत्वकी महत्तासे अनुग्रह करो वा न करो किन्तु मेरे प्रणाममात्रको स्वीकार करनेमें क्या परिश्रम है ? याचकोंके कल्पलतास्वरूप तुम कहाँ ? और मेरी ओर दृष्टिदानमें भी यह कृपणता ( कञ्जूसी ) कहाँ ? // 109 / / ___ टिप्पणी-प्रभुत्वभूम्ना = वहोर्भावः भूमा, बहु शब्दसे "पृथ्वादिभ्य इमनिज्वा" इस सूत्रसे इमनिच् प्रत्यय और "बहोर्लोपो भू च बहोः" इससे 'बहुके स्थानमें "भू" आदेश / प्रभुत्वस्य भूमा, तेन . ( 10 त० ) / अनुगृहाण = अनु + ग्रह + लोट् + सिप् “हल: श्नः शानज्झौ" इस सूत्रसे 'श्ना' के स्थानमें शानच् आदेश। प्रणाममात्राधिगमे = प्रणाम एव प्रणाममात्रम् (रूपक०) तस्य अधिगमः, तस्मिन् (ष० त० ) / याचतां = याच + लट् ( शतृ ) + आम् / कल्पलता = कल्पस्य लता (ष० त० ) "नामैकदेशे नामग्रहणम्" इस न्यायके अनुसार कल्पवृक्षके लिए 'कल्प' शब्दका प्रयोग किया गया है / दृष्टिदाने = दृष्टेर्दात, तस्मिन (ष० त०), बद्धमुष्टिना = बद्धामुष्टिर्येन सः बद्धमुष्टि: "स्याद् बद्ध मुष्टि: कृपणे कृपणाऽऽदिषु चेष्यते / " इति विश्वः / बद्ध मुष्टे वः, बद्धमुष्टि + तल् + टाप+सु / याचकोंके मांगनेपर कम मुष्टि (मुट्ठी)बांध लेता है इस कारण उसे "बद्धमुष्टि" कहते हैं यह भाव है / इस पद्य में विरूपोंका संघटन होनेसे विषम अलङ्कार है // 109 // स्मरेषुबाधां सहसे मृदुः कथं ? हृदि द्रढोयःकुचसंवृते तव / निपत्य वैसारिणकेतनस्य वा व्रजन्ति बाणा विमुखोत्पतिष्णुताम् // 110 // अन्वय.- ( हे भैमि ! ) मृदु: ( त्वम् ) स्मरेपुबाधां कथं सहसे ? वैसारिणकेतनस्य बाणा द्रढीयःकुचसंवृते तव हृदि निपत्य विमुखोत्पतिष्णुतां व्रजन्ति वा ? // 10 // व्याख्या--मृदुः = कोमला त्वं, स्मरेषुबाधां = कामवाणपीडां, कयं = केन प्रकारेण, सहसे = मृष्यसि, वैसारिणकेतनस्य = कामदेवस्य, बाणाः = शराः, द्रढीयःकुचसंवृते = दृढतरपयोधराच्छादिते, तव = भवत्याः, हृदि =