________________ नवमः सर्गः 347 एवं च अदोषनिर्वासितभूषणे = निर्दोषपरित्यक्ताऽलङ्कारे / हृदि = वक्षःस्थले, अश्रुणः = नयनजलस्य, सवैः = बिन्दुभिः एव, कियत् = किंपरिमाणं यथा तथा, हारं = मुक्तामालां, तनोषि = रचयसि, किमर्थं रोदिषीति भावः // 105 // ___ अनुवादः-(हे प्रिये ! ) लीलाकमलका त्याग करनेवाले हाथमें रक्खे गये मुखको ही क्यों लीलाकमल बना रही हो ? दोषके बिना ही भूषणोंका परित्याग करनेवाले वक्षःस्थलमें अश्रुबिन्दुओंसे कबतक हार बनाती रहोगी ? // 105 / / टिप्पणी-अपास्तपाथोरुहि = पाथसि ( जले ) रोहतीति पाथोरुट् = कमलम् ( पाथस् + रुह + क्विप् + सु)। "कबन्धमुदकं पाथः” इत्यमरः / अपास्तं पाथोरुट् येन, तस्मिन् ( बहु०)। शानितं = शी+णिच् + क्तः+ सु / लीलानलिनं = लीलाया नलिनं, तत् ( 10 त० ) / लीलाकमलको छोड़कर कपोलपर हाथ रखनेका क्या कारण है ? यह भाव है। अदोषनिर्वासितभूषणे अविद्यमाना दोषाः ( त्रासादयः) येषा तानि ( नबह० ) / अदोषाणि निर्वासितानि भूषणानि येन, तस्मिन् ( बहु० ) / क्यों रो रही हो यह पूछते हैं // 105 // दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्परिमार्जयामि ते / अयाऽपराधं भवदङघ्रिाजद्वयोरजोभिः सममात्ममोलिना / / 106 // अन्वयः- ( हे प्रिये ! ) इदं ते दृशो: मिलत् अमङ्गल्यं जलं तावत् करेण परिमार्जयामि / अथ अपराधं भवदङ्घ्रिपङ्कजद्वयोरजोभिः समम् आत्ममौलिना परिमार्जयामि // 106 / / व्याख्य - इदम् = एतत्, ते = भवत्याः, दृशोः= नयनयोः, मिलत् = सम्बद्धं, जलम् = अश्रु, तावत् = आदो, करेण = हस्तेन, परिमार्जयामि = परिमाज्मि / अथ = अश्रुपरिमार्जनाऽनन्तरम्, अपराधम् = आगः, आत्मवञ्चनदोषमिति भावः / भवदघ्रिपङ्कजद्वयीरजोभिः = त्वच्चरणकमलद्वितीपरागः, समं = सह, आत्ममौलिना = स्वमुकुटेन, प्रणामेनेति भावः। परिमार्जयामि = परिमार्जितं करोमि // 106 // अनुवादः - ( हे प्रिये ! ) तुम्हारे नेत्रोमें स्थित इस अमाङ्गलिक आँसूको पहले हाथसे पोंछता हूँ। अनन्तर तुम्हारे चरणकमलोंके परागोंके साथ अपने मुकुटसे अपने अपराधका परिमार्जन करता हूँ // 106 // टिप्पणी-मिलत् = मिल + लट् ( शतृ ) + अम्। अमङ्गल्यं = न मङ्गल्यं, तत् ( नञ्० ) / परिमार्जयामि = परि + मृज् + णिच् + लट् +