________________ 345 नवमः सर्ग अन्वयः-अयि प्रिये ! कस्य कृते विलप्यते ? मुखम् अश्रुबिन्दुभिः विलिप्यते / हा ! पुरो नमन् अयं नल: त्वया तिरश्चलल्लोचनलीलया न आलोकि किम् ? // 103 // - व्याख्या-अष्टादशभिः पद्यैः प्रलापमवाह-अयोति / अयि प्रिये - हे दयिते दमयन्ति !, कस्य - जनस्य, कृते = निमित्ते, विलप्यतेपरिदेव्यते, त्वयेति शेषः / मुखम् आस्यम्, अश्रुबिन्दुभिः = नयनसलिलपृषतः, विलिप्यते = विलिप्तं क्रियते, प्रदूष्यत इति भावः / हा = तव शोच्यत इति भावः / पुरः = अग्रे, नमन् = प्रणमन्, अयं = समीपस्थः, नल:, त्वया - भवत्या, तिरश्चलल्लोचनलीलया = तिर्यक्प्रसरन्नयनविलासेन, न आलोकि किम = नो दृष्ट: किम ? प्रत्यक्षेऽपि परोक्षवदुपालम्भो नोचित इति भावः / / 103 / / अनुवादः- हे प्रिये ! तुम किसके लिए विलाप करती हो? मुखको अश्रुबिन्दुओंसे विलिप्त करती हो, हाय ! सामने प्रणाम करते हुए मुझ नलको तुमने तिरछे चलनेवाले नेत्रोंकी लीलासे नहीं देखा क्या ? // 103 // टिप्पणी-विलप्यते = वि+लप + लट् (भावमें )+त / अश्रुबिन्दुभिः = अश्रूणां बिन्दवः, तः (ष० त० ) / विलिप्यते = वि + लिप + लट् ( कर्ममें )+त / नमन् = नम+लट ( शतृ )+ सु / तिरश्चलल्लोचनलीलया = तिरश्चरती च ते लोचने ( क० धा० ), तयोर्लीला, तया (10 तः)। आलोकि = आङ् + लोक+लुङ( कर्म में )+त / प्रत्यक्ष होने पर भी परोक्षके समान उलाहना देना उचित नहीं है वह भाव है // 103 // घकास्ति बिन्दुच्युतकाऽतिचातुरी धनाश्रुबिन्दुनुतिकतवात्तव / मसारसाराक्षि ! ससारमात्मना तनोषि संसारमसंशयं यतः // 104 / / अन्वयः-हे मसारसाराक्षि ! घनाऽश्रुबिन्दुस्रुतिकतवात् तव बिन्दुच्युतकाऽतिचातुरी चकास्ति / यतः संसारम् आत्मना संसारं तनोषि, असंशयम् // 104 / / ___व्याख्या-हे मसारसाराक्षि ! = हे उत्तमेन्द्रनीलमणिनयने, ! घनाऽश्रुबिन्दुखुतिकतवात् = सान्द्रनयनजलपृषतच्युतिच्छलात्, तव = भवत्याः, बिन्दुच्युतकाऽतिचातुरी = बिन्दुच्युतककाव्याऽतिनिपुणता, चकास्ति = शोभते / यतः = यस्मात्कारणात्, संसारं = भवम्, आत्मना = स्वेन स्वसामर्थ्येन च, ससारं 3 सारवन्तं, च्युताऽनुस्वारं च, तनोषि = करोषि, असंशयं = संशयी न, अत्र विषय इति शेषः / त्वया मे संसारसाफल्यमिति भावः // 104 //