________________ 342 नैषधीयचरितं महाकाव्यम् कथाऽवशेषं सव सा कृते गतेत्युपेष्यति श्रोतपथं कथं न ते ? / बयाऽणुना मां समनुग्रहीष्यसे तदाऽपि तावद्यदि नाथ ! नाऽधुना // 19 // अन्वयः-हे नाथ ! तव कृते सा कथाऽवशेषं गता इति ते श्रोत्रपथं कथं न उपेष्यति ? अधुना न यदि, तदा अपि दयाऽणुना मां समनुग्रहीष्यसे तावत् // 99 / / व्याख्या- हे नाथ = हे प्राणेश्वर !, तव = भवतः, कृते = निमित्ते, सा = दमयन्ती, कथाऽवशेष = शब्दाऽवशेष, गता प्राप्ता, इति = एषा वार्ता, ते = भवतः, श्रोत्रपथं = कर्णमार्ग, कथं = केन प्रकारेण, न उपष्यति = न प्राप्स्यति, उपेष्यत्येवेति भावः। अधुना = अस्मिन् समये, न यदि = न अनुगृह्णासि चेत्, तदा अपि = मद्दशाश्रवणसमये अपि, दयाऽणुना = कृपालेशेन, मां, समनुग्रहीष्यसे = समनुकम्पिष्यसे, तावत् = एव / अधुना न यदि, पश्चादनुशोचनमपि महानुग्रह इति भावः // 99 // ____ अनुवादः-हे प्राणेश्वर ( नल ) ! आपके लिए वह ( दमयन्ती ) कथाशेष हुई यह बात आपके कानोंतक क्यों नहीं पहुंचेगी ? अभी अनुग्रह नहीं करते हैं तो उस समय भी आप कृपाके लेशसे भी मुझे अनुगृहीत करेंगे ही // 99 // टिप्पणी-कथाऽवशेषं = कथाया अवशेषः, तम् (10 त०)। श्रोत्रपथं = श्रोत्रयोः पन्थाः श्रोत्रपथः, तम (ष० त०)। उपैष्यति - उप+ इण+लट+ तिप् / दयाऽणुना = दयाया अणुः, तेन (ष० त०), "स्त्रियां मात्रा त्रुटिः, पुंसि लवलेशकणाऽणवः / " इत्यमरः / समनुग्रहीष्यसे सम् + अनु + ग्रह + लुट + थास् / “ग्रहोऽलिटि दीर्घः" इस सूत्रसे इटका दीर्घ / अभी नहीं तो पीछे भी मेरे लिए शोक करेंगे तो महान् अनुग्रह होगा यह भाव है / / 99 // ममाऽऽदरीवं विदरोतुमान्तरं तदर्थिकल्पद्रुम ! किञ्चिदर्थये। भिवां हवि द्वारमवाप्य मेव मे हताऽसुभिः प्राणसमः समं गमः / / 100 // अन्वयः-- ( हे नाथ | ) मम, इदम् आन्तरं विदरीतुम् आदरि, तत् हे अर्थिकल्पद्रुम ! किञ्चित् अर्थये / प्राणसमः ( त्वम् ) हृदि भिदाम् एव द्वारम् अवाप्य मे हताऽसुभिः समम् एव मा गमः / / 100 / / व्याख्या-( हे नाथ ! ) मम, इदम् एतत्, आन्तरम् = अन्तर्भवं, हृदयम् / विदरीतुं = स्फुटितुम्, आदरि = आदरयुक्तम्, अस्तीति शेषः / तत् = तस्मात्कारणात्. हे अर्थिकल्पद्रुम = हे याचककल्पवृक्ष !, किञ्चित् = किमपि, अर्थये = याचे, किं तदित्यत आह-भिदामिति / प्राणसमः = प्राणतुल्यः त्वं, हृदि == हृदये, भिदाम् एव = भेदम् एव, द्वारं = निःसरणप्रतीहारम्, अवाप्य = प्राप्य,