________________ नवमः सर्ग 341 . टिप्पणों-त्वदेकतानस्य = त्वयि एकतानः, तस्य ( स० त०)। "एकता. नोऽनन्यवृत्तिः" इत्यमरः / दृक्पथाऽतिथिः = दृशोः पन्था दृक्पथः (10 त० ), तस्य अतिथि: ( ष० त० ) / वक्ति = वच+लट् + तिप् / अगोपि = गुप+ लुड़ ( कर्ममें )+त / गवेषितः = गवेष+क्तः ( कर्ममें )+सु // 97 // ममाऽपि कि नो दयसे ? दयाधन ! त्वदनिमग्नं यदि वेत्थ मे मनः / निमज्जयन् संतमसे पराऽऽशयं विधिस्तु वाच्या, क्व तवाऽऽगसः कया ? // 98 // अन्वयः - हे दयाधन ! मम मनः त्वदङ्घ्रिमग्नं वेत्थ यदि, मम अपि किं नो दयसे ? ( अथ वा ) पराऽऽशयं संतमसे निमज्जयन् विधिस्तु वाच्यः, तव आगसः कथा क्व ? // 98 / / व्याख्या - हे दयाधन=हे कृपानिधे ! नल !, मम, मनः = चित्तं, त्वदध्रिमग्नं = त्वच्चरणस्थितं, वेत्थ यदि = वेत्सि चेत्, तर्हि मम अपि, किं नो दयसे = किं न अनुकम्पसे ? अथ वा पराऽऽशयम् = अन्याऽन्तःकरणं, संतमसे = गाढान्धकारे, मोहरूप इति शेषः / निमज्जयन् = पातयन्, विधिस्तु = देवं तु, वाच्यः = उपालभ्यः, अतः तव = भवतः, आगसः = अपराधस्य, कथा = कथनं, क्व = कुत्र? दैवव्यामोहितस्त्वं मां न जानासि, न तु निर्दयत्वादिति भावः // 98 // ___ अनुवादः-हे कृपानिधे नल ! तुम मेरे मनको अपने चरणमें मग्न जानते हो तो मेरे ऊपर क्यों दया नहीं करते हो ? अथवा दूसरेके अन्तःकरणको मोहरूप गाढ अन्धकारमें डालनेवाले भाग्यको ही उलाहना देना चाहिए, तुम्हारे अपराधकी क्या बात है ? // 98 / / __टिप्पणी-दयाधन = दया एव धनं यस्य सः ( बहु० ), तत्सम्बुद्धौ / त्वदङ्क्रिमग्नं = तव अङ्ग्री (ष० त० ), तयोः मग्न, तत् ( स० त० ) / वेत्थ = विद् + लट् + सिप् ( थल ) / "विदो लटो वा" इससे सिपके स्थानमें थल आदेश / मम = "अधीगर्थदयेशां कर्मणि" इससे दय धातुके योगमें षष्ठी। पराऽऽशयं = परस्य आशयः, तम् (ष० त० ) / संतमसे = सन्ततं तमः संतमसं, तस्मिन् ( गति० ), "अवसमन्धेभ्यस्तमसः' इससे समासाऽन्त अच प्रत्यय / निमज्जयन् = नि + मस्ज + णिच् + लट् ( शतृ)+सु / वाच्यः = वच् + ण्यत् + सु / भाग्यसे व्यामोहित होनेसे तुम ऐसी आपद्ग्रस्त मुझे नहीं जानते हो यह भाव है / / 98 //