________________ नैषधीयचरितं महाकाव्यम् शतं समाः = शतसंवत्सरपर्यन्तम् / क्षालयतं = प्रक्षालयतम्, गुरुपापं गुरुप्रायश्चित्तनिवारणीयमिति भावः / मम नलदर्शनाऽऽशाऽपि निरस्तेति भावः / / 91 // अनुवादः-हे मेरे नेत्रों ! मिथ्यापातकवाले मनोरथोंने तुम्हारे जैसे बड़ोंको भी कैसे ठग लिया ? प्यारे नलके सौन्दर्यदर्शनका निवारण करनेवाले पातकका आँसुओंसे सौ सालतक प्रक्षालन करो (धोओ) / / 91 // टिप्पणी-विप्रलेभिरे = वि + प्र + लभ् + लिट् + झ ( इरेच् ) / प्रियश्रियः= प्रियस्य श्रीः, तस्याः (10 त० ) / प्रेक्षणघाति = प्रेक्षणं हन्तीति, तत् प्रेक्षण + हन् + णिनि: ( उपपद०) + सु। पातकं = पातयति, अधो गमयतीति, पत + णिच् + ण्वुल + अम् / पातित्यप्रयोजक गोवध आदि पापविशेषको "पातक" कहते हैं / शतं समाः = अत्यन्त संयोगमें द्वितीया / "संवत्सरो वत्सरोऽब्दो हायनोऽस्त्रो शरत् समाः / " इत्यमरः / क्षालयतम् = शल+णिच+लोट् + थस् ( तम् ) // 91 // प्रियं न मत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि / वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसादान्न भवत्यसावपि // 92 // अन्वयः-हे मनः ! त्वदीप्सितं प्रियं न लभे, त्वदीप्सितं मृत्युं च न लभे / त्वं मम यत् इच्छसि तत् एव न स्यात् / (अतः ) मे प्रियेण वियोगम् एव इच्छ / तव प्रसादात असो अपि मे न भवति // 92 // व्याख्या-हे मनः = हे.मानस !, त्वदीप्सितं = त्वदभीष्टं, प्रियं = वल्लभ, नलं, न लभे = न प्राप्नोमि, तदलाभे त्वदीप्सितं = त्वदभीष्टं, मृत्यु च-मरणं च, न लभे = न प्राप्नोमि / तस्मात् त्वं, मम, यत् इच्छसि = वाञ्छसि, तत् एव-न स्यात् = नो भवेत्, अतः मे = मम, प्रियेण = वल्लभेन नलेन, वियोगम् एव = विरहम् एव, इच्छ = कामयस्व / तव = भवतः, प्रसादात् = अनुग्रहात्, असो अपि = वियोगः अपि, मे = मम, न भवति = नो जायते, नललाभाऽभावे मरणमेव मे शरणामिति भावः / / 92 // ___ अनुवादः - हे मन ! मैं तुम्हारे अभीष्ट प्रिय ( नल ) को नहीं पाती हूँ और तुम्हारी अभीष्ट मृत्युको भी नहीं पाती हूँ। तुम मेरा जो चाहते हो वही नहीं होती है अतः प्रियके साथ मेरे विरहकी इच्छा करो, तुम्हारे अनुग्रहसे वह ( वियोग ) भी मेरा नहीं होता है / / 92 // . टिप्पणी-त्वदीप्सितं = तव ईप्सितं, तत् (प० त०)। लभे = लभ+ लट् + इट् / इच्छसि = इष् + लट् + सिप्। इस पलमें संयोगके लिए वियोगकी