________________ नवमः सर्गः 335 अन्वयः-हे जीवित ! किं विलम्बसे? द्रुतं द्रव। यतः ते अदो निकेतनं हृदयं ज्वलति / अद्य अपि मृषा सुखाऽऽसिकां न जहासि / तव ईदृशम् आलस्यम् अपूर्वम् अहो ! // 90 // ___ व्याख्या हे जीवित = हे प्राणवायो !, किं = किमर्थं, विलम्बसे = विलम्बं करोषि, द्रुतं = शीघ्र, द्रव = गच्छ / यतः–ते = तव, अदः = इदं, निकेतनं = गृहम्, आवासस्थानमिति भावः / हृदयं = हृत्, ज्वलति प्रज्वलति / अद्य अपि = इदानीम् अपि, मृषा - वृथा, सुखाऽऽसिकां = सुखाऽऽसनं, न जहासि = न त्यजसि, दह्यमाने गृहे नो वस्तव्यमिति भावः / तव = भवतः , ईदृशम् = एतादृशम्, आलस्यम् = अलसत्वम्, अपूर्व = नूतनम्, अहो = आश्चर्यम् ! / / 90 // . अनुवादः - हे जीवित ! क्यों विलम्ब करता है ? जल्दी जा। तेरा यह निवासस्थान हृदय जल रहा है। अभी भी व्यर्थ सुखासनको तू नहीं छोड़ रहा है / तेरा ऐसा आलस्य अपूर्व है। आश्चर्य है ! // 90 // टिप्पणी-विलम्बसे - वि + लबि + लट् + थास् / द्रव = द्रु+ लोट् + सिप् / सुखाऽऽसिकाम् = आसनम् आसिका, आस धातुसे "धात्वर्थनिर्देशे ण्वुल्वक्तव्यः" इस वार्तिकसे ण्वुल ( अक )+टाप् / सुखम् ( यथा तथा ) आसिका सुखाऽऽसिका, ताम् ( सुप्सुगा० ) / जहासि = हा +लट् + सिप् / आलस्यम् = अलसस्य भावः, अलस+ष्य + सु / / 90 // दृशो ! मृषापातकिनो मनोरथाः कथं पृथू वामपि विप्रलेभिरे / प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः क्षालयतं शतं समा / / 91 // अन्वयः- हे दृशो ! मृषापातकिनो मनोरथाः पृथु वाम् अपि कथं विप्रलेभिरे ? ( किञ्च ) प्रियश्रियः प्रेक्षणघाति पातकम् अश्रुभिः शतं समाः क्षालयतम् // 91 // व्याख्या -- हे दृशौ = हे नेत्रे !, मृषापातकिनः = अनृतपातकयुक्ताः, मनोरथाः = अभिलाषाः, नलदिदृक्षारूपा इति शेषः / पृथू = महत्यौ, विप्रलम्माऽन] इति भावः / वाम् अपि = युवाम् अपि, कथं = केन प्रकारेण, विप्रलेभिरे = वञ्चयामासुः / साहसिकाः किं न कुर्यः ? मनोरथा वां विफला इति भावः / किं च, प्रियश्रियः = नलसौन्दर्यस्य, प्रेक्षणघाति = दर्शनघातकं, पातकं = पापविशेषम्, जन्मान्तरकृतमिति शेषः / अश्रुभिः = नयनसलिलः,