________________ 334 नैषधीयचरितं महाकाव्यम् तनु + लोट् + थास् / परेहाफलभक्षणव्रती = ईहायाः फलम् (10 त० ), "इच्छा काङ्कास्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः।" इत्यमरः / परेषाम् ईहा. फलम् (ष० त०), तस्य भक्षणम् (ष० त०) / तस्मिन् व्रती (स० ल०) / अफल:अविद्यमानं फलं येषां ते, तैः ( नञ्-बहु० ) / तृप्यन् = तृप् + लट् ( शतृ ) + सु / पत = पत + लोट् + सिप, स्त्रीवधके पातकी बनो, यह भाव है / / 88 // भृशं वियोगाऽनलतप्यमान ! कि विलीयसे न त्वमयोमयं यदि ? / स्मरेषुभिर्भेद्य ! न वज्रमप्यसि ब्रवीषि न स्वान्त ! कथं न दीर्यसे ? // 89 // अन्वयः- हे भृशं वियोगाऽनलतप्यमान ! हे स्वान्त ! त्वम् अयोमयं यदि, ( तर्हि ) कि न विलीयसे ? हे स्मरेषुभिः भेद्य ! ( अत एव ) वज्रम् अपि न असि, / किन्तु ) कथं न दीर्य से ? न ब्रवीषि ? // 89 / / / व्याख्या- भृशम् = अत्यर्थं, हे वियोगाऽनलतप्यमान-वियोगाऽग्निसन्दह्यमान ! हे स्वान्त = हे हृदय !, त्वम्, अयोमयं यदि = लोहरूपं चेत्, तर्हि, कि न विलीयसे = किं न विलीनं भवसि, अयोधनस्याऽपि अग्नितापाद्विलयनदर्शनादयोमयमपि नाऽसीति भावः / स्मरेषुभिः = कामबाणः हे भेद्य = हे भेदनीय !, अत एव वज्रम् अपि = कुलिशम् अपि, न असि = नो विद्यसे, किन्तु कथं न दीर्यसे = कथं न विदलसि वज्रदन्यस्य लोहलेख्यत्वादिति भावः / न ब्रवीषि = नो ब्रूषे ? त्वत्स्वरूपमिति भावः // 89 // अनुवादः--हे वियोगाऽग्निसे अत्यन्त सन्तप्त होनेवाला हृदय ! तू लोहमय है तो क्यों नहीं विलीन होता है, हे कामबाणोंसे भेदनीय ! अत एव तू वज्र भी नहीं है, किन्तु क्यों नहीं विदीर्ण होता है ? क्यों नहीं बोलता है ? // 59 // टिप्पणी--वियोगाऽनलतप्यमान = वियोगस्य अनल: (ष० त० ), तेन तप्यमानः ( तृ० त० ), तत्सम्बुद्धौ। स्वान्त = "चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः।" इत्यमरः / अयोमयम् = अयः स्वरूपं यस्य तत्, अयस् + मयट् ( स्वार्थमें ) + सु। विलीयसे = वि + लङ् + लट् + थास् / स्मरेपुभिः = स्मरस्य इषवः, तैः ( ष. त.)। दीर्य से = दृ + लट् ( कर्मकर्ता में )+थास् / ब्रवीषि = ब्रू+ लट् + सिप् // 89 // विलम्बसे जीवित ! किं, द्रव द्रुतं, ज्वलत्यदस्ते हृदयं निकेतनम् / जहासि नाऽद्याऽपि मृषा सुखाऽऽसिकामपूर्वमालस्यमहो ! तवेदृशम् // 90 //