________________ 332 नैषधीयरितं महाकाव्यम् सा = दमयन्ती, तदा = तस्मिन्समये, पतत्पुष्पशिलीमुखाऽऽशुगः = कुसुमभ्रमरपतनहेतुभूतवातः, धुता = कम्पिता, शुचेः = ग्रीष्मस्य, रसस्य = जलस्य, सरसी = सरः, आसीत् =अभवत् // 86 // __ अनुवादः-गिरते हुए कामबाणोंसे कम्पित, वेगयुक्त आँसूके प्रवाहसे नालसहित नीलकमलोंकी-सी लीलासे युक्त नेत्रोंवाली शृङ्गाररसके सरोवर दमयन्ती उस समय फूल और भ्रमरोंके पतनके हेतुभूत वायुसे कम्पित ग्रीष्मऋतुके जलका सरोवर बन गई // 86 // ___ टिप्पणी-पतत्पुष्पशिलीमुखाऽऽशुगैः = पुष्पाणि एव शिलीमुखा यस्य सः ( बहु० ) / तस्य आशुगा: ( ष० त०)। पतन्तश्च ते पुष्पशिलीमुखाऽऽशुगाः, तैः ( क० धा० ) / “अलिबाणी शिलीमुखौ" इति "आशुगौ वायुविशिखौ" इति चाऽमरः / बद्धाऽऽदरया = बद्ध आदरः यया सा, तया ( बहु० ) / अश्रु. धारया = अश्रुणां धारा, तया ( 10 त० ) / सनालनीलोत्पललीललोचना = नालेन सहितं सनालम् ( तुल्ययोगबह ) / नीलं च तत् उत्पलम् ( क० धा० ), सनालं च तत् नीलोत्पलम् ( क० धा० ) / सनालनीलोत्पलस्य इव लीला ययोस्ते ( व्यधिकरणबह० ) / सनालनीलोत्पललीले लोचने यस्याः सा ( बहु० ) / शुचेः = "ग्रीष्मशृङ्गारयोः शुचिः" इति कोषः / सरसी = "कासार: सरसी सरः" इत्यमरः / ' पतत्पुष्पशिलीमुखाऽऽशुगः = पुष्पाणि च शिलीमुखाश्च ( द्वन्द्व ) / पतन्तः पुष्पशिलीमुखा येषां ते (बहु०) / ते च ते आशुगाः ( वायवः ), तः ( क० धा० ) / इस पद्यमें शृङ्गाररस और ग्रीष्मजलंकी सरसीके रूपमें भैमीका आरोप करनेसे रूपक अलङ्कार अङ्गी है और श्लेष तथा उपमा उसके अङ्ग हैं, इस प्रकारसे सङ्कर अलङ्कार है / / 86 // अथोदभ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्त रतिः स्खलन्मतिः / व्यधात्प्रियाऽवाप्तिविघातनिश्चयान्मदनि दूना परिदेवितानि सा // 87 // अन्वयः-अथ प्रियाऽवाप्तिविघातनिश्चयात् दूना सा उभ्रमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मति: ( सती ) मृदूनि परिदेवितानि व्यधात् // 7 // ... व्याख्या-अथ = कामविकारोदयाऽनन्तरं, प्रियाऽवाप्तिविघातनिश्चयात् = नलप्राप्तिप्रतिबन्धनिर्णयात्, दूना = उपतप्ता, सा = दयमन्ती, उद्ममन्ती = उन्मादयुक्ता, रुदती = अश्रूणि विमुञ्चती, गतक्षमा = नष्टधैर्या, ससंभ्रमा = सत्वरा, लुप्तरतिः = अपगतस्पृहा, स्खलन्मतिः = तत्त्वनिर्धारणशक्तिरहिता