________________ 329 नवमः सर्गः इदं महत्तेऽभिहितं हितं मया विहाय मोहं वमयन्ति ! चिन्तय / सुरेषु विघ्नेकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ? // 83 // अन्वयः-हे दमयन्ति ! मया इदं महत् हितं ते अभिहितम् / मोह विहाय चिन्तय / तया हि-सुरेषु विघ्नकपरेपु ( सत्सु ) को नरः करस्थम् अपि अर्थम् अवाप्तुम ईश्वरः ? // 83 // ____ व्याख्या - इन्द्रादीनामवरणेनाऽनिष्टं प्रदर्शयति-इदमिति / हे दमयन्ति = हे भैमि !, मया = देवदूतेन, इदम् = एतत्, महत् = परमं, हितम् = उपकारकं वचनम्, ते = तुभ्यम्, अभिहितं = कथितं, मोहं = मूढतां, विहाय = त्यक्त्वा, चिन्तय = विमृश / तथा हि-सुरेपु = देवेपु, विघ्नंकपरेपु = प्रत्यूहैकतत्परेषु सत्सु, को नरः = जनः, करस्थम् अपि = हस्तस्थितम् अपि, अर्थ = वस्तूं, अवाप्तुं = प्राप्तुम, ईश्वरः = समर्थः, न कोऽपीति भावः / / 83 / अनुवादः-हे दमयन्ति ! मैंने तुम्हें यह परम हितकारक वचन कहा है। तुम मोहको छोड़कर विचार करो। क्योंकि देवताओंके विघ्नमात्रमें तत्पर हो जानेपर कौनसा जन हाथमें रहे हुए पदार्थको भी पानेके लिए समर्थ होता है ? ( कोई भी नहीं ) // 83 // टिप्पणो--ते = तुभ्यम्, क्रियाके ग्रहणमें चतुर्थी / अभिहितम् = अभि+धा (हि )+क्त+मु / चिन्तय = चिन्त+णिच + लोट् + सिप / विघ्नकपरेषु = एकं यथा तथा पराः ( सुप्सुपा० ), विघ्ने एकपराः, तेषु ( स० त०), करस्थं = कर+स्था+क: ( उपपद० ) + अम् / अवाप्तुम = अव+आप+तुमुन् / . ईश्वरः = ईश+ वरच् + मुं। इस कारणसे बलवान के साथ विरोधका दुष्परि. णाम होता है, वह नहीं करना चाहिए, यह भाव है। इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 83 // इमा गिरस्तस्य विचिन्त्य चेतसा तथेति सम्प्रत्ययमाससाद सा। निवारिताऽवग्रहनीरनिर्झरे नभोनभस्यत्वमलम्भयद दृशौ / / 84 / / अन्वयः --सा इमाः तस्य गिरः चेतसा विचिन्त्य तथा इति सम्प्रत्ययम् आससाद, (अथ) निवारिताऽवग्रहनीरनिर्झरे दृशो नभोनभस्यत्वम् अलम्भयत् / / 84 / / व्याख्या-सा = दमयन्ती, इमाः = सम्प्रत्येवोक्ताः, तस्य = देवदुतस्य नलस्य, गिरः = वचनानि, चेतसा चित्तेन, विचिन्त्य = पर्यालोच्य, तथा इति= तथव भवेत् इति, "सुरेषु विघ्नकपरेपु 9-83" इनि वचनाऽनुसारमिति शेषः /