________________ नैषधीयचरितं महाकाव्यम् वदनस्य, वृत्तान्तम्-व्यापारम्, अजानताम् = अविदुषां, क्षोणिभुजां = राज्ञाम्, अच्छत्त्रकदण्डताण्डवम् = अपनीतच्छत्रदण्डनृत्यं, युद्ध, भुजाभुजि चम्बाहूबाहवि च, मृधं = युद्धं, दिदृक्षसे = द्रष्टुम् इच्छसि // 79 // ___ अनुवादः- ( हे दमयन्ति ! ) परस्परमें क्रोधसे कठोर वचनोंको बोलते हुए अपने मुखके व्यापारको नहीं जाननेवाले राजाओंके छत्तरहित दण्डोंके ताण्डवरूप तथा बाहुओंके युद्धको तुम देखना चाहती हो // 79 // टिप्पणी-जल्पतः = जल्पतीति जल्पत, तस्य, जल्प+लट् ( शत)+ डस् / अजानतां न जानन्तीति अजानन्तः तेषाम् न + ज्ञा+लट् ( शतृ) आम् / क्षोणिभुजां - क्षोणि भुञ्जन्तीति क्षोणिभुजः, तेषाम्, क्षोणि + भुज् + क्विप् ( उपपद०) + आम् / अच्छत्त्र कदण्डताण्डवम् = अविद्यमानं छत्त्रं येषां ते अच्छत्त्रकाः ( नञ् बहु० ), ते च ते दण्डा: ( क धा० ) / तेषां ताण्डवम् (ष० त०)। भुजाभुजि-भुजाभ्यां भुजाभ्यां प्रहृत्य इदं युद्धं प्रवृत्तं "तत्र तेनेदमिति सरूपे" इससे बहुव्रीहिसमास, "इच् कर्मव्यतिहारे" इस सूत्रसे समासाऽन्त इच् प्रत्यय / “अन्येषामपि दृश्यते" इससे दीर्घ / मृधं = "मृधमास्कन्दनं संख्यम" इत्यमरः / दिदृक्षसे = द्रष्टुम् इच्छसि, दृश् + सन् + लट् + थास् / “ज्ञाश्रुस्मृ . दृशां सनः" इससे आत्मनेपद / परस्पर आक्रोश कर शस्त्रोंके न रहनेपर छात्रोंके दण्डोंसे और हाथों हाथोंसे होनेवाले राजाओंके युद्ध को तुम देखना चाहती हो, यह भाव है / / 79 // अपार्थयन् याशिकफूत्कृतिश्रमं ज्वलेषा चेहपुषा तु नाऽनलः / अलं नलः कर्तुमनग्निसाक्षिको विषि विवाहे तव सारसाक्षि ! कम् ? / / 80 // अन्वयः-हे सारसाक्षि | तव विवाहे अनल: याज्ञिकफूत्कृतिश्रमम् अपार्थयन् रुषा ( एव ) ज्वलेत् वपुषा तु न ज्वलेत् चेत् ( तदा ) नलः अनग्निसाक्षिकः कं विधि कर्तुम् अलम् ? // 80 // व्याख्या-हे सारसाक्षि = हे कमलनयने !, तव = भवत्याः , विवाहे = परिणये, अनल: = अग्निदेवः, याज्ञिकफूत्कृतिश्रमं = याजकफूत्कारपरिश्रमम्, अग्निसन्दीपनप्रयासमिति भावः / अपार्थयन = व्यर्थं कुर्वन्, रुपा = कोपेन एव, ज्वलेत् = दीप्तो भवेत्, वपुषा तु, = स्वरूपेण तु , न ज्वलेत् चेत् = नो दीप्येतं यदि, तदा नल: = नपधः, अनग्निसाक्षिकः = अग्निसाक्ष्यरहितः सन, कं, विधिम् = अनुष्ठानं, कर्तुं = विधातुम्, अलं = समर्थः, न कंचिदपि विधि कर्तुमलमिति भावः // 80 //