________________ नवमः सर्गः अन्वयः-विचित्रवाक्चित्रशिखण्डिनन्दनः स तदार्तिकाकुभिः भिन्न मर्मा अपि स्वदूतधर्मात् विरन्तुं ऐहत, ( किन्तु ) निभृतं विनिश्वसन् शनः अशंसत् // 73 // व्याख्या-विचित्रवाक्चिशिखण्डिनन्दनः = विचित्रवाचि ( अनेकप्रकारवचने ) चित्रशिखण्डिनन्दनः ( बृहस्पतिः ), सः = नल:, तदार्तिकाकुभिः = दमयन्तीपीडाकरुणोक्तिभिः, भिन्नमर्मा अपि - विदीर्णहृदयः अपि, स्वदूतधर्मात् निजसन्देशहराऽऽचारात्, विरन्तुं = निवर्तितुम्, न ऐहत = न ऐच्छत्, किन्तु निभृतं = गुप्तं यथा तथा, विनिश्वसन = विनिश्वासं मुञ्चन्, शनः = मन्दम्, अत्वरयेति भावः / अशंसत् = अब्रवीत् // 73 // ___ अनुवादः-विचित्र वचन कहनेमें बृहस्पति नलने दमयन्तीकी पीडासे उत्पन्न करुण वचनों से विदीर्णहृदय होते हुए भी अपने दूतधर्मसे हटनेकी इच्छा नहीं की और गुप्त रूपसे लम्बा श्वास लेकर वे धीरे-धीरे बोलने लगे // 73 / / टिप्पणी-विचित्रवाक्चित्रशिखण्डिनन्दनः = विचित्रा चाऽसो वाक् ( क. घा० ) / चित्रशिखण्डिनः ( अङ्गिरसः ) नन्दनः (पुत्रः ), ष० त० / “जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः।" इत्यमरः / विचित्रवाचि चित्रशिखण्डिनन्दनः ( स० त० ) / तदार्तिकाकुभिः = आर्त्या काकवः ( तृ० त० ) / तस्या आतिकाकवः, ताभिः (10 त० ) / भिन्नमर्मा = भिन्नं मर्म यस्य सः -- (बहु० ) / स्वदूतधर्मात् = दूतस्य धर्मः (10 त० ), स्वस्य दूतधर्मः, तस्मात् (ष० त०), "जुगुप्साविरामप्रमादाऽर्थानामुपसंख्यानम्" इस वार्तिकसे "विरन्तुम्" इसके योगमें अपादानसंज्ञा होनेसे पञ्चमी। विरन्तुं = वि+रम् +तुमुन् / ऐहत = ईह + लङ् + तः। विनिश्वसन् वि + नि + श्वस + लट् ( शतृ ) + सु / अशंसत् = शंस+लङ् + तिप् // 73 // "दिवोधवस्त्वां यदि कल्पशाखिनं कदापि याचेत निजाऽङ्गनाऽऽलयम्। कथं भवेरस्य न जीवितेश्वरी? न मोघयाच्न: स हि भीर ! भूरुहः / / 74 / / अन्वयः- हे भीरु ! दिवोधवः कदाऽपि निजाऽङ्गनाऽऽलयं कल्पशाखिनं त्वां याचेत यदि, तदा कथम अस्य जीवितेश्वरी न भवे: ? हि स भूरुहो मोधयानो न / 74 // - व्याख्या–इन्द्राऽवरणे भीतिमुत्पादयति-दिवोधव इति / हे भीरु = हे भयशीले !, दिवोधवः = स्वर्गपतिः, इन्द्र इति भावः / कदापि = जातुचित् निजाऽङ्गनाऽऽलयं = स्वाऽजिरस्थानं, कल्पशाखिनं = कल्पवृक्षं, त्वां-भवती, 21 न० न०