________________ 320 नैषधीयचरितं महाकाव्यम् / कोपाऽनलभस्मनः = कोप एव अनल: ( रूपक० ), तस्य भस्म (ष० त० ) / कपालिनः कोपाऽनलभस्म, तस्य (ष० त० ) / कृते = यह अव्यय है। स्वकुले - स्वस्य कुलं, तस्मिन् (ष० त०)। स्तृतं = स्तृ+क्त+सु / कामाऽन्ध होकर चरित्रत्याग करनेवाली स्त्रीने अपने कुलको जला दिया है, यह भाव है। नलमें परायण मेरे सामने इन्द्र आदि दिक्पालोंका नामग्रहण भी नहीं करना चाहिए, यह तात्पर्य है // 71 // निपीय पीयूषरसौरसीरसौ गिरः स्वकन्दपंहुताऽशनाऽऽहुतीः / कृताऽन्तदूतं न तया ययोक्तिं कृतान्तमेव स्वममन्यताऽदयम् // 72 // अन्वयः-असौ पीयूषरसौरसीः स्वकन्दर्पहुताऽशनाऽऽहुतीः गिरो निपीय स्वं तया यथोदितं कृताऽन्तदूतं न, अदयं कृताऽन्तम् एव अमन्यत / / 72 // व्याख्या-असौ = नलः, पीयूषरसौरसी: = अमृतरसतनूजाः, अमृतरससदशी, मतिमधुरा इति भावः, स्वकन्दर्पहुताशनाऽऽहुतीः = निजकामाऽग्न्याहुतिसदशीः, निजकामाऽनलोद्दीपिका इति भावः / गिरः = भैमीवाक्यानि, निपीय = सप्रणयमाकण्येति भावः / स्वम् = आत्मानं, तया = भैम्या, यथो. दितं = यथोक्तं, तदनतिक्रमणेनेति भावः / कृताऽन्तदूतं = यमसन्देशहरं, न = न अमन्यत, किन्तु अदयं = निर्दयं, कृताऽन्तम् एव = यमराजम् एव, अमन्यत = ज्ञातवान् // 72 // अनुवादः-नलने अमृतरसके सदृश अधिक मधुर और अपने कामाऽग्निको उद्दीप्त करनेवाली दमयन्तीकी वाणीको सुनकर अपनेको. दमयन्तीकी उक्तिके अनुसार यमदूत नहीं, निर्दय यमराज ही माना // 72 // ___ टिप्पणी-पीयूषरसौरसी: = उरसा निर्मिता औरस्यः, उरस् शब्दसे "उरसोऽण् च" इस सूत्रसे अण् प्रत्यय और स्त्रीत्वविवक्षामें डीप। पीयूषस्य रसः (ष० त० ), तस्य औरस्यः, ता: (10 त० ) / स्वकन्दर्पहुताऽशनाऽऽहुती: = स्वस्य कन्दर्पः (10 त० ), स एव हुताऽशनः ( रूपक० ), तस्य आहुतयः, ताः (प० त० ) / यथोदितम् = उदितम् अनतिक्रम्य ( अव्ययीभाव० ) / अदयम् =अविद्यमाना दया यस्य सः, तम् (नबहु० ) कृताऽन्तं = कृत: अन्तो येन, तम् (बहु०) / "कृताऽन्तो यमुनाभ्राता शमनो यमराड् यमः / " इत्यमरः / अमन्यत = मन + लङ् + त / इस पद्यमें रूपक अलङ्कार है / / 72 / / / स भिन्नमर्माऽपि तदातिकाकुभिः स्वदूतधर्मान्न विरन्तुमेहत / शनैरशंसन्निभृतं विनिश्वसन् विचित्रवाक्चिशिखण्डिनन्दनः / / 73 //